________________
१०८ जैनमेघदूतम् ।
[ती "प्रियसुखादानुकूल्ये" (सि० ७-२-१४०) डाप्रत्ययः । दुःख कर्तुमित्यत्र "दुःखालातिकूल्ये” (सि०७-२-१४१) डाप्रत्ययः अत्रोपमानकाव्यलिङ्गानुप्रासाः ॥ १७ ॥ बाहौ धृत्वा प्रियमधुमुखा अप्यभाषन्त बन्धो !
सन्तः प्रायः परहितकृते नाद्रियन्ते स्वमर्थम् । प्रष्ठस्तेषामपि बत! कुतोऽतद्विलोपेपि दत्से
नन्वग्भूय खजनमनसामेवमाभीलकीलाः ॥१८॥ 'प्रियमधुमुखा अपि' बलदेवमुख्या अपि अर्थात्तं भगवन्तं बाहै धृत्वाऽभाषन्त, लोके हि संबन्धी सदाक्षिण्यः स्मितपूर्वकाग्रहेण बाहौ धृत्वा असम्मतमपि वस्तु अङ्गीकार्यत इति । हे बन्धो ! सन्तः प्रायः 'परहितकृते' अन्यहितार्थ 'स्वमर्थ स्वकार्य नाद्रियन्ते आत्मार्थ मुक्त्वा परहितं कुर्वन्ति, बत इति खेदे, त्वं तेषां सतां 'प्रष्टोऽपि' मुख्योऽपि 'अतद्विलोपेऽपि' तस्य स्वार्थस्य विलोपो विनाशः तद्विलोपः, न तद्विलोपोऽतद्विलोपस्तस्मिन् स्वार्थस्याविना. शेऽपि 'अनन्वग्भूय' प्रतिकूलो भूत्वा स्वजनमनसां एवं' अमुना प्रकारेण 'आभीलकीलाः' कष्टज्वालाः कुतो हेतोर्दत्से ? कोऽर्थः ?, परोपकारपराणां साधूनां मुख्यस्त्वम् , तवार्थो मोक्षलक्षणः पाणिग्रहणेऽपि न विनश्यन्नस्ति, एवं सति त्वं स्वजनमनसां पाणिग्रहणनिषेधरूपाः कष्टज्वालाः कुतो ददासि ? । अन्वग्भवनं पूर्व अन्वग्भूय, न अन्वग्भूय अनन्वग्भूय "आनुलोम्येऽन्वचा” (सि०५-४-८८) क्त्वाप्रत्ययः, "अनबः क्त्वो य” (सि० ३-२-१५४)। अत्राप्रस्तुतप्रशंसाविरोधरूपकानि ॥ १८ ॥ तीर्थेष्वन्येष्वमितविमतिदृश्यते दर्शनानां
सर्वेषां तु स्फुरति पितरौ तीर्थमत्यन्तमान्यम् । तौ ताम्यन्तौ त्वदनुपयमान्मोदयस्यद्य चेचत
को दोषः स्यादितरवनिता अप्यवोचन्त चेति ॥ १९ ॥