________________
सर्गः। श्रीमन्मेरुतुङ्गसूरिविरचितं कुर्वत्यः ? 'अन्योऽन्यस्यां परस्परं 'इति' अमुना प्रकारेण 'मत्स्यण्डीयुक्त्रिकटुगुटिकाकल्पमुक्तवत्यः' मत्स्यण्डी खण्डं तेन (तया) युक् तन्मिश्रा या त्रिकटुगुटिका तत्कल्पं तत्समानं भाषितवत्यः, कोऽर्थः ? यथा खण्डमिश्रास्त्रिकटुगुटिकाः किञ्चित्तिक्ताः किश्चित् मधुराश्च भवन्त्येवं काचिदुद्धतं काचिन्मधुरं च बभाषे । किंरूपाः ? 'सरसरसनाः' सरसजिह्वाः, पुनः किंविशिष्टाः ? उत्केतुः उत्पताक एतावताऽत्युत्कृष्टः रागो यासां ताः, एतावता सर्वा अपि पट्टदेव्यः खां वा युक्तिमुक्त्वा युगपत्प्रभोः पादयोः पेतुरित्यर्थः । अन्योऽन्यस्यामित्यत्र “परस्परान्योऽन्येतरेतरस्यां स्यादेर्वा पुंसि" (सि. ३-२-१) इत्यनेन अन्योऽन्यस्य शब्दस्याग्रे विभक्तेराम् , ईषदपरिसमाप्ता त्रिकटुगुटिका त्रिकटुगुटिकाकल्पम् , "अतमबादेरीपदसमाप्ते कल्पप् देश्यप् देशीयर" (सि० ७-३-११) इति कल्पप्प्रत्ययः । अत्रातिशयोक्त्युपमोदात्तानुप्रासाः ॥ १६ ॥ सर्वानन्यानपि ननु सुखाकुर्वतः प्रीतितन्तु
स्यूतवान्ताः प्रणयविनयाधानदैन्यं प्रपन्नाः । दुःखाकर्तुं तव समुचिता न प्रजावत्य एता
राजीविन्यो दिनकृत इवावोचदित्यच्युतोऽपि ॥ १७ ॥ 'अच्युतोऽपि' नारायणोऽपि इति अवोचत् , इतीति किम् ? हे बन्धो! तव एताः 'प्रजावत्यः' भ्रातृजायाः 'दुःखाकर्तु' दुःखयितुं न समुचिताः । कस्येव ? 'दिनकृत ( इव)' सूर्यस्येव, यथा दिनकृतः 'राजीविन्यः' कमलिन्यो दुःखाकर्तुं न समुचिताः । किंरूपा एताः ? 'प्रीतितन्तुस्यूतस्वान्ताः' प्रीतिरेव तन्तुस्तेन स्यूतं खान्तं मनो यासां ताः, एतावताऽत्यन्तस्नेहलाः, पुनः किंरूपाः? 'प्रणयविनयाधानदैन्यं प्रपन्नाः' प्रणयः प्रेम विनयश्च तयोराधानेन न्यसनेन दैन्यं दीनत्वं प्रपन्नाः । किं कुर्वतस्तव ? सर्वानन्यानपि 'सुखाकुर्वतः सुखयतः, एतावता त्वमन्यान् सर्वानपि सुखयसि तत एता भ्रातृजाया दुःखयितुं कथं युक्ताः ।। सुखाकुर्वत इत्यत्र