________________
जैनमेघदूतम् ।
[तृतीयः
गान्धारी चावगिति न परं ब्रह्मतो ब्रह्म जन्मा
दृत्वैतासे ध्रुवमुपयतावप्यवाप्तासि तच्च । अस्तुकारात् सुखय ननु नः पादयोः पत्यते ते
दासः सस्ते पटुचटुगिरा राज्यमप्याप्यमीश! ॥१५॥ 'च' अन्यद् गान्धारी इति अवक्-हे देवर ! त्वं जन्मात् 'ब्रह्म' ब्रह्मचर्य धृत्वा 'ब्रह्मतः' मोक्षात् परं 'न एतासे' न गन्तासि, 'उपयतावपि' पाणिग्रहणेऽपि 'ध्रुवं' निश्चितं 'तत्' ब्रह्म अवाप्तासि (प्राप्तासि ), कोऽर्थः ? यदि यावज्जीवमपि ब्रह्मचर्य धरसि तदापि मोक्षादूर्ध्व न यास्यसि, यदि च परिणेष्यसि तदापि मोक्षं यास्यस्येव, अर्हतां मोक्षगतेर्निश्चितत्वात् । 'ननु' वितर्के, अस्तुकारात् 'नः' अस्मान् 'सुखय' सुखभाजः कुरु, अस्तु भवतु अधिकारात् पाणिग्रहणमस्तु इति वचनकरणात् । 'ते' तव पादयोः पत्यते । वयं 'ते' तव दास्यः स्मः । हे ईश! 'पटुचटुगिरा' स्पष्टचाटुवाण्या राज्यमपि 'आप्यं' प्राप्यम् । अस्तु इति त्यादिप्रतिरूपकमव्ययम् , ततः अस्तु करणं अस्तुङ्कारः "भावाकोंः ” (सि. ५-३-१८) घप्रत्ययः, "सत्यागदास्तोः कारे” (सि० ३-२-११२) मोऽन्तः । सुखय इति "सुख दुःखण् तक्रियायाम्” इति धातुः। अत्र काव्यलिङ्गोदात्तानुप्रासाः ॥ १५ ॥ अन्योऽन्यस्यां सरसरसना नेतुरुत्केतुरागा
मत्स्यण्डीयुक्त्रिकटुगुटिकाकल्पमित्युक्तवत्यः । प्रेमस्थेमक्षितितलमिलन्मौलिमाणिक्यमाला
बालांशुश्रीशरणचरणाम्भोजयोः पेतुरेताः ॥१६॥ 'एताः' अन्तःपुर्यः 'नेतुः' स्वामिनः 'प्रेमस्थेमक्षितितलमिलन्मौलिमाणिक्यमालाबालांशुश्रीशरणचरणाम्भोजयोः पेतुः प्रेम स्नेहः तस्य स्थेम्ना स्थैर्येण क्षितितले पृथ्वीतले मिलन् मौलिः मस्तकं तत्र या माणिकामाला तस्या या बालांशुश्रीः बालकिरणलक्ष्मीः तस्याः शरणे स्थाने ये चरणाम्भोजे चरणकमले तयोः पेतुः। किं