________________
सर्गः1] श्रीमन्मेरुतुगसूरिविरचितं १०५ त्यापितः "णिज बहुलं.” (सि० ३-४-४२) णिच् , "सत्याथेवेदस्याः” (सि० ३-४-४४) आकारः । सानामित्यत्र "कृत्यस्य वा” (सि० २-२-८८) इति षष्ठी । अत्र दृष्टान्तार्थान्तरन्यासानुप्रासाः ॥ १३ ॥
सत्यभामयोद्धतं वाक्यमुक्तं ततः पद्मावती प्रशस्तं वाक्यं प्राहपावत्या तदनु जगदे नो मुदे देवरोऽसौ
नो कुत्राभूद्वद कुमुदिनीवत् कलाभृद्वयसे! । अन्तर्धातुं प्रतिधमलिनाम्भोभृता तन्न युक्तं
पीयूषाब्धि किमुत शिरसेशानवद्धर्तुमेतम् ॥ १४ ॥ 'तदनु' ततोऽनन्तरं पद्मावत्या 'जगर्दै प्रोचे-हे 'वयस्ये ! सखि सत्यभामे ! 'बद' ब्रूहि असौ देवरो 'न'अस्माकं कुत्र 'मुद्दे हर्षाय नोऽभूत् ? अपि तु सर्वत्राभूत् । किंवत् ? 'कुमुदिनीवत् यथा कुमुदिनीनां 'कलाभृत् चन्द्रः कुत्र हर्षाय न भवेत् ? अपि तु सर्वत्रापि स्यात् । एषोऽपि कलाश्चातुर्यादिका बिभर्तीति कलाभृत् । 'तत् तस्मात्कारणाद् एतं 'प्रतिघमलिनाम्भोभृता' 'अन्तधातुम्' आच्छादयितुं न युक्तम् , प्रतिघः कोप एव मलिनोऽम्भोभृत् मेघस्तेन, किमुत ईशानवत् शिरसा एतं धतु युक्तम् । किंविशिष्टमेतम् ? 'पीयूषस्य अब्धि' अमृतस्य समुद्र, सौभाग्यादिगुणैरत्यर्थमानन्दहेतुत्वादमृतसमुद्रवदाप्यायकत्वात् पीयूषाब्धिरेव यथा गौरेवायमित्यादि, चन्द्रोऽपि पीयूषस्य अब्धिः अमृतभृतत्वात्, कोऽर्थः ? यथा चन्द्रो मलिनघनेनाऽऽच्छाद्यते तद्युक्तम् , यत् (च) ईश्वरेण शिरसि धार्यते तद्युक्तम् , तथा एषोऽपि भगवान् सकोपवाक्यैर्यत्तिरस्क्रियते तद्युक्तं परं भक्त्या सक्रियते तद्युक्तं, महान्तो हि भक्त्या ग्राह्या न तु शत्या । अत्रोपमानरूपकातिशयोक्यलकाराः ।। १४ ॥
अथ गान्धारी प्राह