________________
१०४
जैनमेघदूतम् । [तृतीयः जिनानां मान्या, लौकिकस्य महाव्रतिनो हरस्यापि मान्या पाणिग्रहणाकरणेन पराङ्मुखतया तस्या नार्या द्विषन् नवीनः कोऽपि त्वं दक्ष इति प्रेमोपहासः। किंरूपा गौरी? 'प्रेमकोपात्' स्नेहकोपात् अगौरी, एतावता कोपाधिकारादारक्ता, सकोपोक्क्या जनस्ताम्रवर्णः स्यादिति । नार्या इत्यत्र "द्विषो वाऽतृशः” (सि० २-२-८४) षष्ठी । संपश्यस्वेति "समो गमृच्छिप्रच्छि०” (सि० ३-३-८४) इत्यात्मनेपदम् । अत्र वक्रोक्तिविषमविरोधश्लेषानुप्रासाः ॥ १२ ॥
अथ सत्यभामाऽऽहसत्या सत्यापितकृतकवाकोपमाचष्ट सख्यः!
साध्यः सानां न जलपृषतां तप्तसर्विदेषः । रुवा तन्न खयमतिबलाचाशु वश्यं विधाय
स्वान्तं संविद्वदिममवलेत्यात्मदोषोऽध नोद्यः॥१३॥ 'सत्या' सत्यभामा सत्यापितः ( सत्यः) कृतः कृतकः कृत्रिमो वाकोपो वचनकोपो यत्र एवं यथा भवति 'आचष्ट आचख्यौ, हे सख्यः! 'एषः' देवरः ‘साम्नां' सामवाक्यानां न साध्यः, सामवाक्यैः साधयितुं वशीवर्तुं न शक्य इत्यर्थः । किंवत् ? 'तप्तसर्पिवत्' यथा तप्तसर्पिः 'जलपृषतां' पयोबिन्दूनां न साध्यम् । 'तत् तस्मात्कारणात् 'एनं (इमं) नेमिनं रुद्धा 'च' अन्यत् 'आशु' शीघ्रं अतिबलात् वश्यं विधाय अद्य अबला इति आत्मनो दोष आत्मदोषः 'न नोद्यः' न स्फेटनीयः ? अपि तु स्फेटनीय एव । किंवत् ? 'संविद्वत्' यथा संवित् ज्ञानं 'स्वान्तं' चित्तं रुद्धा वश्व विधाय आत्मनो दोषं नोदयति, सर्वत्रापि स्त्री अबला कथ्यते, अद्यैनं बलिनं वश्यं कृत्वाऽयं दोषो भेत्स्यते, अधप्रभृति महाकार्यसमर्थत्वात्कोऽपि आत्मनामबला इति न कथयिष्यति, एतावता हठेनापि एष वश्वः कार्य इति । सत्येति "ते लुग्या" (सि. ३-२-१०८) इत्युत्तरपदभामाशब्दलोपः । सत्यः क्रियते स स