________________
सर्गः 1]
श्रीमन्मेरुतुङ्गसूरिविरचितं
१०३
वाग्मिनां वाचोयुक्तीनां सीमा मर्यादा, अत्यर्थं वाग्मिनीत्यर्थः । हे धीमन् ! 'पश्य' विलोकय 'गृही' गृहस्थः ' प्रणाय्यः' निष्कामः सन् 'अकल इव' निष्कल इव 'न प्रणाय्य:' न असम्मतः ? अपि तु असम्मत एव । 'तत्' तस्मात्कारणात् 'ननु' निश्चितं त्वं 'गुरुगिरा' ज्ञातिवृद्धवचनेन स्वस्य आत्मनो द्वितीयां 'द्वितीयां' पत्नीं तन्वन् सन् अग्र्याः कलाः सौभाग्यादिकाः प्राप्स्यसि । क इव ? 'विधुरिव' यथा विधु: 'वलक्षे' उज्ज्वले सर्वपक्षे स्वद्वितीयां द्वितीयां तिथिं तन्वन् अग्र्याः कलाः प्राप्नोति । उत्तस्थे इत्यत्र "उदोऽनूर्श्वे हे” (सि० ३-३-६२ ) आत्मनेपदम् । प्रणीयते इति प्रणाय्यः “प्रणाय्यो निष्क्रामासम्मते” ( सि०५ - १ - २३ ) इति घ्यण्प्रत्यये निपातः । अत्र रूपकतुल्ययोगितोपमानानुप्रासाः ॥ ११ ॥
अथ गौरी प्राह
नार्या आर्यापर परमिति त्वं द्विषन् कोऽसि निष्णो जिष्णोर्मान्या प्रतनभगवच्छान्तिमुख्यार्हतो या । संपश्यस्व क्षणमपि महात्रत्यपीशो न मुश्चेद्
गौरी गौरी गिरमिति जगौ प्रेमकोपादगौरी ॥ १२ ॥ गौरी इति गिरं जगौ । इतीति किम् ? ' हे आर्यापर !' आर्येभ्यो मुग्धेभ्योऽपर वक्र त्वं 'नार्याः' स्त्रियः 'द्विषन्' द्वेषं कुर्वन् कः 'निष्णः' दक्षोऽसि ? या नारी ' जिष्णोः' नारायणस्य मान्या, अथवा जिष्णोः जयनशीलस्य 'प्रतनभगवच्छान्तिमुख्यातो मान्या' प्रतनः चिरन्तनो भगवान् श्रीशान्तिर्मुख्यो यस्यासौ अर्हन् जिनः तस्य, श्रीशान्तिकुन्थुअरजिनानां चतुःषष्टिसहस्राणि अन्तःपुर्योऽभूवन् । 'संपश्यस्व' विलोकय महात्रत्यपि ईशः क्षणमपि गौरीं न मुश्चेत्, यो महाव्रतभृत् स्यात् स स्त्रियां स कथं कुर्यात् ? इशस्तु महात्रतीति प्रसिद्धोऽपि अर्धाङ्गविभक्तत्वात् पार्वतीं क्षणमपि न मुभ्यति, अतो या नारी जिष्णूनां लोकोत्तर श्रीशान्तिनाथमुख्य