________________
जैनमेघदूतम् ।
[तृतीयः 'लक्ष्मणाः' लक्ष्मीवन्तस्ते येषां लक्ष्मीः 'घनवनमिव' मेघजलमिव
अन्योपयोगैककृत्या' अन्योपयोग एव परोपकार एव एकं कृत्यं यस्याः सा, येषां लक्ष्मीः परोपकारे समेति ते लक्ष्मीवन्तः, यथा मेघजलं परोपकारे एति । 'चेत्' यदि त्वद्रूपश्रीः परैर्न उपजीव्या, किंवत् ? 'जलधिजलवत्' यथा जलधिजलं परैर्नोपजीव्यते, 'तत्' तस्मात्कारणात् त्वं लोके कैः पुरुषैः 'तद्वदेव' समुद्रवदेव विरस इति 'नो तय॑से ? नो विचार्यसे ?, विरसः शृङ्गाररसरहितत्वाश्रीरसः, अपि तु सर्वैरपि विचार्यसे, यथा समुद्रः सर्वैरपि विरस इति कथ्यते विरुद्धो रसो यस्येति विरसः क्षार इत्यर्थः, तथा त्वमपि विरसः कथ्यसे । लक्ष्मीविद्यते येषां ते लक्ष्मणाः "लक्ष्म्या अनः” (सि०७-२-३२) अनप्रत्ययः, "अवणेवर्णस्य” (सि० ७-४-६८) ईलोपः, "रषवर्णान्नो णः०" (सि० २-३-६३) इति नस्य णत्वं । घनवनमिव जलधिजलवदित्यत्र यद्यपि लिङ्गभेद उपमादोषः तथाप्ययं कापि क्वापि प्रयुज्यते, यथा वाग्भटालङ्कारे-"हिममिव कीर्तिर्धवला" (४-५९) इति । अत्र पर्यायोक्ततुल्ययोगितोपमानानुप्रासाः। अत्र तव रूपलक्ष्मीः रूयाद्युपभोगे सति सरसा स्यादिति विशेष प्रस्तुते सति सामान्यरूपाया लक्ष्म्या उक्तिरिति तुल्ययोगिता, "कार्ये निमित्ते सामान्ये, विशेष प्रस्तुते सति । तदन्यस्य वचस्तुल्ये, तुल्यस्येति च पञ्चधा ॥१॥" ॥१०॥
अथ सुसीमा प्राहउत्तस्थेऽथो सपदि गदितुं वाग्मिसीमा सुसीमा
धीमन् ! पश्याकल इव गृही न प्रणाय्यः प्रणाय्यः। तत्वं तन्वननु गुरुगिरा खद्वितीयां द्वितीयां
प्राप्स्सस्सया विधुरिव कलाः सर्वपक्षे वलक्षे॥११॥ .. 'अथो' अनन्तरं सुसीमा 'सपदि' तत्कालं 'गदितुं' वर्छ उत्तखे' उद्युक्ता बभूवेत्यर्थः । किंभूता मुसीमा? 'वाग्मिसीमा'