________________
सर्ग: 11
श्रीमन्मेरुतुङ्गसूरिविरचितं
૦૧
आद्यं कृत्यम्, श्रीआदिदेवेन प्रथमं दर्शित इत्यर्थः तथैव उद्वाहस्यापि अध्वा ' तदुपज्ञं' तस्यैव श्रीआदिदेवस्य उपज्ञं आद्यज्ञानम्, यतः - " उपज्ञा ज्ञानमाद्यं स्यात् ” ( अभिधानचि ० का ० ६-९) इति, ततः क्लीबत्वे "क्लीबे” ( सि० २-४ - ९७ ) हस्व:, विवाहस्यापि मार्गः प्रथमं तेनैव दर्शितः, हे देवर ! इति किं न स्मरसि ? 'तत्' तस्मात्कारणात् त्वं तां 'दैवीं' देवसंबन्धिनीं 'सृतिं' मार्ग 'अपसृजन' लुम्पन् कोऽपि 'नूत्नः ' नवीनः 'सार्वः' सर्वज्ञोऽसि । उपक्रमं उपज्ञं इत्यत्र “आदावुपक्रमोपज्ञे” (लिङ्गा० नपुं० ११ ) इति नपुंसकलिङ्गम् । श्रेयो मोक्षः श्रेयसोऽयं श्रायसः "तस्येदम्” ( सि० ६-३ - १६० ) अण्प्रत्ययः, "देविकाशिंशपादीर्घसत्रश्रेयसस्तत्प्राप्तावाः” (सि० ७ - ४ - ३ ) एकारस्य आकारः । देवस्येयं दैवी अण् ङी । अहारो हारो भूताः हारीभूताः अभूततद्भावे च्विः, "ईश्वाववर्णस्यानव्ययस्य " ( सि० ४-३ - १११ ) ई । “कै गै रे शब्दे" गै, "आत् सन्ध्यक्षरस्य” (सि० ४ - २ - १ ) गा, अद्यतनी - दि, “सिजद्यतन्याम्" ( सि० ३-४-५३) सिच् “सः सिजस्तेर्दिस्योः” ( सि० ४ - ३ - ६५ ) ईआगमः, " यमिरमिनम्यातः सोऽन्तश्च” ( सि० ४-४-८६ ) इट् सोऽन्तः, “इट ईति” ( सि० ४-३ - ७१ ) सिच्लोपः । अतस्त्वं पूर्व पाणिग्रहणं कृत्वा पश्चातं महीथाः, इति श्री ऋषभप्रणीतौ द्वावपि मागौ समाचीर्णौ स्तः । अत्र काव्यलिङ्गदृष्टान्तनिदर्शनालङ्काराः ॥ ९ ॥ अथ लक्ष्मणाऽऽह -
गामानैषीद्वदनसदनं लक्ष्मणा लक्ष्मणास्ते
लक्ष्मीर्येषां घनवनमिवान्योपयोगककृत्या | त्वद्रूप श्रीर्जलधिजलवनोपजीव्या परैवेत्
तल्लोके कैर्विस इति नो तर्क्यसे तद्वदेव ॥ १० ॥ लक्ष्मणा वदनसदनं 'गामानैषीत्' गां वाणीं, एतावता उवाचेस्त्वर्थः, अन्याऽपि गौः सदनं गृहमानीयते । लक्ष्मणावाच्यमाह