________________
जैनमेघदूतम् ।
[द्वतीयः निशमयन् अत्र णिग् स्वार्थे यथा पालयतीति, ततः "शमोऽदर्शने" (सि०४-२-२८) इतिसूत्रेण दर्शनार्थे इखो न स्यात्, तेन मिशामयन् स्यात्, परं केचित्तु दर्शनेऽपीच्छन्ति । अविभः "टुडु,गक् पोषणे च” भू, ह्यस्तनी-दिव , "अड् धातोरादि." (सि० ४-४-२९), "हवः शिति” (सि० ४-१-१२) द्विः, "ऋतोऽत्” (सि०४-१-३८) अत्, "द्वितीयतुर्ययोः प्रथमतृतीयौ (पूर्वी)" (सि० ४-१-४२) भ ब, “पृभृमाहाममिः" (सि० ४-१-५८), "नामिनो गुणो.” (सि० ४-३-१) अर्, "व्यञ्जनाहेः सश्च दः” (सि० ४-३-१८) दिलोपः । व्यशिषत् "शिष्लंप् विशेषणे" अद्यतनी-दि, "लूदित्" (सि० ३-४-६४) अ । पुष्पः० "पुष्पदन्तौ पुष्पवन्तावेकोक्त्या शशिभास्करौं” (अभिधानचि० का० २-३८) इति । स्वीरित्यत्र "विना ते तृतीया च” (सि० २-२-११५) इति द्वितीया । इदं रूपं च इदं लावण्यं च इयं तारुण्यश्रीश्च अमूनि "समानामर्थेनैकः शेषः” (सि० ३-१-११८) एकशेषः, "स्त्रीपुंनपुंसकानां सहवचने स्यात्परं लिङ्गम्” (लिङ्गानुशासने) इति नपुंसकलिङ्गम् । अत्रोदात्तदृष्टान्तकाव्यलिङ्गालङ्काराः ॥ ८॥
अथ जाम्बवत्याहनामेयोपक्रममिह यथा श्रायसोऽध्वा तथैवो
द्वाहस्यापि सरसि तदुपज्ञं न किं देवरेति । तत्तां दैवी मृतिमपमृजन कोऽपि नूनोऽसि सार्यो
हारीभूतद्विजमणिधूणिर्जाम्बवत्यप्यगासीत् ॥९॥ जाम्बवत्यपि 'इति अगासीत् एवमवादीत् । किंभूता जाम्बवती ? 'हारीभूतद्विजमणिघृणिः' हाररूपतया भूता द्विजमणीनां दन्तमणीनां घृणयः (कान्तयः) यस्याः सा । इतीति किम् ? 'इह यया श्रायसोऽध्वा नामेयोपक्रम' इह जगति यथा येन प्रकारेण प्रायसो मोक्षसंबन्धी अध्वा मार्गों नामेयस्य श्रीआदिदेवस्य उपक्रम