________________
सर्गः1] श्रीमन्मेरुतुङ्गसूरिविरचितं निःशवं 'उश्यसे त्वं जल्प्यसे, स्त्री मानिता सती गङ्गेव ईश्वर स्थापि शिरोऽधिवसति, यथा गङ्गा ईश्वरेण मानिता सती शिरोडधितष्ठौ । अत्र दन्तानां राजा राजदन्तः "राजदन्तादिषु" (सि. ३-१-१४९) अनेन राजशब्दस्य प्रामिपातः । सहसीति "पह मर्षणे" षड्, "धात्वादेः षः सो-" (सि० २-३-९८) सह । "युजादेने वा" (सि० ३-४-१८) इति विकल्पेन णिजभावः । उश्यसे इति “वशक् कान्तौ” वर ते क्यः, "वशेरयडि" (सि०४१-८३) वकारस्य वृत् उ । अधिवसतीति योगे शिर इत्यत्र "उपान्वध्यावसः” (सि. २-२-२१) अनेन आधारस्य कर्मत्वम् । अत्रातिशयोक्ति-अपहुति-उपमानार्थान्तरन्यासाः ॥७॥
पुनरपि रुक्मिणी वाक्यमाहरूपं कामस्तव निशमयन् वीडितोऽभूदनगो
लावण्यं चाविम ऋभुविभुलॊचनानां सहस्रम् । तारुण्यश्रीळशिषदथ ते पुष्पदन्तौ शरद
नेतारण्यप्रसवसमतां त्वं विना स्त्रीरमूनि ॥ ८ ॥ हे देवर! कामस्तव रूपं 'निशमयन्' विलोकयन् सन् 'ब्रीडितः' लज्जितोऽनङ्गोऽभूत् , अग्रे काम एव रूपवानिति प्रसिद्धिरभूत , यदा च भगवतो रूपं लोकोत्तरमात्माधिकं दृष्टं तदा तेन लजितेनाङ्गमेव त्यक्तं तदाप्रभृत्यनङ्गोऽभूत् । 'ऋभुविभुः' इन्द्रः तव लावण्यं निशमयन् लोचनानां सहस्रं 'अबिभः' अधरत् , इन्द्रस्तु लावण्यं विलोकयन् द्वाभ्यां लोचनाभ्यां द्रष्टुमक्षमत्वालोचनसहस्रं बभार । 'अर्थ' अनन्तरं तारुण्यश्रीः ते रूपलावण्ये 'व्यशिषत् विशिनष्टि स्म, किंवत् ? 'शरद्वत् यथा शरत् 'पुष्पदन्तौ' चन्द्रसूयौँ विशिनष्टि । त्वं 'अमनि' रूपलावण्यतारुण्यश्रियः स्त्रीविना 'अरण्यप्रसवसमता' अरण्यपुष्पतुल्यतां 'नेता' प्रापयिता, यथाऽरण्यपुष्पाणि कस्यापि कार्ये नाऽऽयान्ति एवं तवापि रूपलावण्य. तारुण्यानि पाणिग्रहणं विना स्त्रीभोगाभावात् व्यर्थानि भविष्यन्ति।