________________
सर्गः।] श्रीमन्मेरुतुङ्गसूरिविरचितं १४३ मादुद्वमने" (सि०३-४-३३)।स्फोटं स्फोटं णम्प्रत्ययः । कुत्सितमल्पमज्ञातं वा इदं इदकम् “लोकात्” (सि० १-१-३) अम् , अग्रे विश्लेषः, "त्यादिसर्वादेः खरेष्वन्यात्पूर्वोऽक्” (सि० ७-३-२९) विचालेऽक्प्रत्ययः । अत्रोपमानुप्रासाद्याः ॥ ७ ॥ अत्र त्यक्त्वाखिलमपि यता स्वामिना काननाय
व्युच्छिन्नाशा मुकुलितमुखी दीर्घदाहैकसम । रक्तोदेष्यनिजपतिकरासजनादस्तिसायं. वीकाशाशा दिनकुमुदिनीबह्वमन्येऽद्य मत्तः ॥८॥
अहं अद्य 'मत्तः' मत्सकाशात् 'दिनकुमुदिनीः बहु अमन्ये' दिने कुमुदिन्यः संकुचिता निःश्रीका भवन्ति परं ता अपि मत्तो भव्या इत्यर्थः, किंविशिष्टाऽहम् ? स्वामिना 'व्युच्छिन्नाशा' नोटिताभिलाषा । किंविशिष्टेन स्वामिना ? अत्र 'अखिलमपि' गृहपरिवारालकारादिकं त्यक्त्वा 'काननाय' वनाय 'यता' गच्छता । 'मुकुलितमुखी' संकुचितवका, 'दीर्घदाहैकसम' स्पष्टम् । किंरूपा दिनकुमुदिनीः ? 'रक्तोदेष्यन्निजपतिकरासञ्जनात् अस्तिसायंवीकाशाशाः' रक्तो रक्तवर्णः उदेष्यन् उदयं प्राप्स्यन् निज आत्मीयः पतिः स्वामी चन्द्रः तस्य कराणां आसञ्जनात् आश्लेषात् अस्ति विद्यमाना सायं सन्ध्यायां वीकाशाशा विकवरत्ववाञ्छा यासां ताः, सायं चन्द्र उदेष्यति तत्कराश्लेषात्ता विकस्वरा भविष्यन्ति, अहं तु एवंविधा नास्मि, तत्पक्षे रक्तो रागपर उत् प्राबल्येन एष्यन् आगमिष्यन् निजः पतिः स्वामी तस्य करस्यासञ्जनात् आश्लेषात् चिरेणाप्यविद्यमानवीकाशाशा, मम चिरेणापि स्वपतिकराश्लेषो नास्तीत्यर्थः । यता इति "इण्क् गतौ” एतीति वर्तमाने शतृप्रत्ययः अत् , "हिणोरप्वितिव्यौ” (सि० ४-३-१५) यत्वं टाप्रत्ययः । मुकुलितमुखीति "नखमुखादनाग्नि" (सि० २-४-४०) डीप्रत्ययः । काननायेति "गतेर्नवाऽनाप्ते" (सि० २-२-६३) इति कर्म