________________
१४४ जैनमेघदूतम् ।
[चतुर्थः प्रयोगे चतुर्थी । रक्तश्चासौ उदेष्यंश्च रक्तोदेष्यन् , रक्तोदेष्यंश्वासौ निजपतिश्चेत्यादि समासः । अस्तीति विद्यमानार्थोऽव्ययप्रयोगः "विभक्तिथमन्ततसाद्याभाः” (सि० १-१-३३ ) इतिवचनात्। वीकाश इति "नामिनः काशे” (सि०३-२-८७) इति वी-दीर्घः। अमन्ये इति बुधिं-मनिंच् इति धातोबस्तन्या इप्रत्यये रूपम् ! अत्र व्यतिरेकहेतुश्लेषाद्याः ॥ ८॥ कोकी शोकाद्वसतिविगमे वासरान्ते चकोरी
शीतोष्ण प्रशमसमये मुच्यते नीलकण्ठी । त्यक्ता पत्या तरुणिमभरे कञ्चकश्चक्रिणेवाड
मत्रं वारां इद इव शुचामाभवं त्वाभवं भोः ॥९॥ भो मेघ ! 'कोकी' चक्रवाकी वसतिविगमे रात्रिप्रान्ते 'शोकात्' विरहात् मुच्यते, चकोरी 'वासरान्ते' दिनान्ते शोकान्मुच्यते, 'नीलकण्ठी' मयूरी 'शीतोष्णर्तुप्रशमसमये' शोकान्मुच्यते, शीतोष्णसम्बन्धिनो ये ऋतवम्तेपां प्रशमः प्रान्तः तस्य समये वर्षाकालप्रारम्भे इत्यर्थः । 'तु' पुनर्भो मेघ ! अहं 'आभवं' भवं जन्म यावत् 'शुचां' शोकानां 'अमत्रं' पात्रं 'आभवं' आ सामस्त्येन अभवम् । क इव ? 'हद इव' यथा हृदः 'वारी' पानीयानाममत्रं भवति । किंरूपाऽहम् ? 'तरुणिमभरें' तारुण्योत्कर्षे पत्या त्यक्ता, क इत्र ? 'कञ्चक इव' यथा 'चक्रिणा' सर्पण कञ्चुको निर्मोकपट्टः त्यज्यते, यथा स तं त्यक्त्वा उद्याति तथा सोऽपि मां त्यक्त्वा उद्यातवानेव । तरुणस्य भावः तरुणिमा "पृथ्वादेरिमन् वा" (सि० ७-१-५८) इति इमन्प्रत्ययः । अत्र समुच्चयातिशयो. क्तयुपमानानुप्रासाः ॥ ९ ॥ शम्बाकृत्योपयमनियमोदुःखहल्याभिरुते
भर्तुर्दीक्षाग्रहनिशमनेनाय वीजाकृतेऽथ । सिक्तो नेत्राम्बुभिरविरलैः शोकशालिविंशाले
शालेयेऽसिचुरसि सरसे पश्य पम्फुल्यतेऽसौ ॥१०॥