________________
सर्गः।] श्रीमन्मेरुतुङ्गसूरिविरचितं १४५
अहो मेघ ! 'पश्य' विलोकय ( अद्य ) अस्मिन् 'उरसि' हृदये 'विशाले' विस्तीर्णे 'शालेये' क्षेत्रे असौ शोकशालिः 'पम्फुल्यते' अत्यर्थ फलति, किंरूपे शालेये ? 'उपयमनियमोढुःखहल्याभिः शम्बाकृत्य उप्ते' उपयमः पाणिग्रहणं तस्य नियमस्तस्माद् यानि उद्दुःखानि प्रबलदुःखानि तान्येव हल्या हलानि तामिः शम्बाकृत्य अनुलोम्य कृष्टं तिर्यक् कृष्ट्वा उप्ते वापयुक्ते, पुनः कथंभूते ? 'अर्थ' अनन्तरं 'भर्तुः' स्वामिनः 'दीक्षाग्रहनिशमनेन' दीक्षाग्रहणश्रवणेन 'बीजाकृते' आदावुप्ते पश्चाद्वीजैः सह कृष्टे इत्यर्थः । किंविशिष्टः शोकशालिः ? अविरलैः 'नेत्राम्बुभिः' अश्रुजलैः सिक्तः । पुनः कथंभूते उरसि ? 'सरसे' शृङ्गाररसयुक्ते, पक्षे सरसे आर्दै । शम्बाकरणं पूर्व बीजाक्रियते स्म बीजाकृतम् इत्यत्र "तीयशम्बबीजात्कृगा कृषौ डाच्” (सि० ७-२-१३५) इति डान्प्रत्ययः । अत्र रूपकानुप्रासातिशयोक्तयः ॥ १० ॥ दुःखस्यैवं जलधर ! परां कोटिमाटीकितां मां
चक्रस्येवो रविरहतस्तस्य भायां विदित्वा । चेत्त्वं सम्यग् जगति सविता तद्भजोचैर्गवौघं __ तन्वानो मन्मुद उदयदं तं क्षमाधीशवित्तम् ॥११॥
हे जलधर ! 'चेत्' यदि त्वं जगति' विश्वे सम्यक् 'सविता पिता असि, अत्यन्तजगद्वत्सलत्वेन पितुरारोपः, अथवा सविता सूर्यः, 'तत्' तस्माद्धेतोः त्वं तं 'क्षमाधीशवित्तं भज' दूतत्वं कुर्विति यावत् , क्षमायाः शमस्य अधीशाः स्वामिनो मुनयस्तेषु वित्तं प्रधानं मुनीन्द्रश्रेष्ठमित्यर्थः, पक्षे क्षमां पृथिवीं दधातीति “उपसर्गादः किः" (सि०५-३-८७ ) इति किप्रत्यये क्षमाधयः पर्वताः तेषामीशाः स्वामिनः प्रधानपर्वतास्तेषु वित्तं प्रसिद्धमुदयाचलमित्यर्थः। किं कृत्वा? मां तस्य भार्या चक्रस्य भार्यामिव 'उद्धरविरहतः' प्रबलविरहात् 'एवं' अमुना प्रकारेण दुःखस्य 'परी' प्रकृष्टां 'कोटिं' अप्रविभागं 'आटी.
१३