________________
जैनमेघदूतम् । [चतुर्थः किता' आरूढां विदित्वा' ज्ञात्वा, यथाऽन्योऽपि सविता चक्रवाकस्य भार्या दु:खितां ज्ञात्वा उदयाचलं भजते तद्विरहं स्फेटयति तथा त्वमपि तं प्रभुं भक्त्वा मद्विरहं स्फेटयेत्यर्थः । किं कुर्वाणः ? 'उ' अतिशयेन गवौघं तन्वानः, गावो जलानि तेषामोघः प्रवाहः तम् , दूतपक्षे गावो वाचः, सूर्यपक्षे गावः किरणानि । किविशिष्टं क्षमाधीशवित्तम् ? 'मन्मुदः' मामकहर्षस्य उदयदम्, पर्वतपक्षेऽपि उदयदं उदयाचलमिति । आटीकितामिति "ककुङ् स्वकुङ्” इत्यादिदण्डके टीधातुराङपूर्वः आटीकते स्म “गत्यकर्मकपिबभुजेः” (सि. ५-१-११) क्तप्रत्ययः, इटू । गवौघमिति "स्वरे वानऽक्षे” (सि० १-२-२९) सस्वर-अव । अत्र रूपकोपमाश्लेषोदात्ताः ॥ ११ ॥ विश्रान्तेऽसिंस्तव गिरिवरे निःशलाकप्रदेशे
ध्यानासीनं यमनियमधीधीरघोणाग्रदृष्टिम् । तादूप्यासेरचलमचलस्येव सङ्गेन नाथं
वीक्ष्य स्थेयास्त्वमपि निभृतं तद्वदेवासमाधि ॥ १२ ॥ हे मेघ! त्वमपि नाथं वीक्ष्य 'आसमाधि' समाधि यावत् 'तद्वदेव' भगवद्वदेव 'निभृतं निश्चलं यथा भवति स्थेयाः, "समाधिस्तु तदेवार्थमात्राभासनरूपकम् ।” (अभिचिन्ता० १-९५) इति समाधिरुत्कृष्टध्यानाङ्गम् , ततो भगवान् यावत् समाधि धृत्वा निभृतस्तिष्ठति तावत्त्वमपि निश्चलः स्थेयाः। किंरूपं नाथम् ? अस्मिन् गिरिवरे 'निःशलाकप्रदेशे' एकान्तस्थाने 'ध्यानासीन' ध्याने निविष्टम् । किंविशिष्टे गिरिवरे? 'तव विश्रान्ते' त्वया विश्रम्यते यस्मिनित्यर्थः । पुनः किंरूपम् ? 'यमनियमधीधीरघोणाप्रदृष्टिं' यमा अहिंसादयो नियमाः शौचादयः तेषां धिया बुद्ध्या धीरा निश्चला घोणाग्रे नासिका दृष्टिर्यस्य, पुनः कथंभूतम् ? अचलम् , कस्माद्धेतोः? उत्प्रेक्ष्यते-'अचलस्य' पर्वतस्य सङ्गेन'ताद्रूप्याप्तेरिव' तद्रूपम् अचलरूपं तस्य भावस्ताद्रूप्यं तस्याप्तिः प्राप्तिस्तस्या हेतोः, एतावताऽचलस्य