________________
सर्गः ।]
श्रीमन्मेरुतुङ्गसूरिविरचितं
૨૪૦
संयोगात् किं भगवानप्यचलो जात इति । विश्रान्ते इत्यत्र विश्रम्यतेऽस्मिन्निति विश्रान्तं तत्र " अद्यर्थाच्चाधारे" ( सि० ५-१ -१२ ) - प्रत्ययः, “अहन्पश्वमस्य०” ( सि० ४ - १ - १०७१ "इति दीर्घः, "नां धुड्वर्गेऽन्त्यो पदान्ते” ( सि० १ - ३ - ३९ ) म् न् धुट् । तवेति "क्तयोरसदाधारे” ( सि० २ - २ - ९१ ) इति सूत्रबलात् “कर्तरि " ( सि० २-२ - ८६ ) इति षष्ठी । अत्रोत्प्रेक्षोपमानु
प्रासाः ॥ १२ ॥
आपीयासौ शमसुखरसं संविदानन्दपूर्णो यावद्धीमन् ! भवति भगवान् किञ्चिदुन्मीलिताक्षः । तावत्तस्य क्रमकमलयोः प्राप्य रोलम्बलीलां शक्लोऽक्लान्तः सुमृदुवचसा वाचयेर्वाचिकानि ॥ १३ ॥ हे धीमन् ! यावदसौ भगवान् किश्चिदुन्मीलिताक्षो भवति, उन्मीलिते उद्घाटिते अक्षिणी येन स उन्मीलिताक्षः, "सध्यक्ष्णः खाने” ( सि० ७ – ३ – १२६ ) समासान्तो ऽन्प्रत्ययः, "अवर्णेवर्णस्य ” ( सि० ७-४-६८ ) इलोपः । किंरूपो भगवान् ? शमसुखरसं 'आपीय' पीत्वा संविदानन्दः चिदानन्दः तेन पूर्णः । स्वं तावत्तस्य 'क्रमकमलयोः' चरणकमलयो: 'रोलम्बलीलां' भ्रमरलीलां प्राप्य ' सुमृदुवचसा ' सुकोमल गिरा ' वाचिकानि' संदेशान् ‘वाचयेः’ कथयेः । किंरूपस्त्वम् ? 'शकुः ""शक्कुः प्रियंवदः” (पुनः) कथंभूतः ? 'अक्लान्तः' अखिन्नः । आपीयेति “पीच पाने" इति धातोः प्रयोगः । शक्ल इति "शकंद शक्तौ” शकू, शक्नोतीति शकुः, "शामाश्याशक म्ब्य मिभ्यो लः” ( सि० उणा० ४६२ ) लप्रत्ययः, "शकुः मनोज्ञदर्शनः मधुरवाक् ” ( ४६२ टीका ) इत्याद्युणादि - दर्शनात् । अत्र परिकरानुप्रासाद्याः ॥ १३ ॥
या स्वीकृत्य प्रथममनघा सर्वसीमन्तिनीनां धुन्योघानामिव सुरधुनीशेन कोटीरिताऽभूत् ।