________________
जैनमेघदूतम् ।
खेदक्षाराम्बुनिधिसमिता दूरिताद्य त्वया सा विज्ञप्तिं ते कलुषिततरा नेतरेवं विधत्ते ॥ १४ ॥
१४८
[ चतुर्थः
I
हे नाथ ! 'ईशेन' स्वामिना या 'अनघा ' निष्पापा प्रथमं स्वीकृत्य सर्वसीमन्तिनीनां 'कोटीरिताऽभूत् कोटीरः क्रियते स्मेति मुकुटरूपा कृतेत्यर्थः । केव ? 'सुरधुनीव' यथा सुरधुनी गङ्गा 'ईशेन' ईश्वरेण स्वीकृत्य 'धुन्योधानां नदीसमूहानां मध्ये कोटीरिता शिरस्यारोपितेति यावत् । हे नेतः ! सा राजीमती 'ते' तव एवं विज्ञप्तिं विधत्ते । किंरूपा सा ? अद्य त्वया दूरिता सती 'खेदक्षाराम्बुनिधिसमिता' खेद एव शोक एव क्षाराम्बुनिधिस्तेन समिता मिलिता, अत एव 'कलुषिततरा' अतिशयेन कलुषिता परिणतदुःखा, अन्याऽपि सुरधुनी ईश्वरशिरसो भ्रष्टा क्षारसमुद्रे मिलिताऽत्यर्थं कलुषिता आविला भवति । कोटीरः क्रियते स्म " णिज्बहुलं ०" ( सि० ३-४-४२ ) णिच्प्रत्ययः, "त्रन्त्यस्वरादेः " ( सि० ७-४-४३ ) कोटीर्यते स्म क्तप्रत्ययः, इद, “णेरनिटि” ( सि० ४–३–८३ ) णिज्लोपः, एवं दूरिता कलुषितेति ज्ञेयम् । ( अत्र ) दृष्टान्तयथासङ्ख्यापरिकरानुप्रासाः ॥ १४ ॥
यां क्षेरेयीमिव नवरसां नाथ वीवाहकाले सारस्नेहामपि सुशिशिरां नाग्रहीः पाणिनाऽपि । सा किं कामानलतपनतोऽतीव बाष्पायमाणाऽनन्योच्छिष्टा नवरुचिभृताऽप्यद्य न स्वीक्रियेत ॥ १५॥ हे नाथ! वीवाहकाले त्वं यां 'सुशिशिरां' सुशीतलां 'क्षैरेयीं' रसालामिव 'पाणिनाऽपि' करेणापि 'नाग्रही : ' न गृहीतवान् । किंविशिष्टां याम् ? ‘नवरसां ' नवो रसः शृङ्गारो माधुर्यरूपो वा यस्यां सा ताम् । पुनः कथंभूताम् ? 'सारस्नेहामपि सारः स्नेहो घृतं प्रेम वा यस्याः । सा राजीमती क्षैरेयी अद्य किं न ' स्वीक्रियते ' अङ्गीक्रियते ?, किंरूपा सा ? कामानलतपनतः 'अतीव' अत्यर्थ