Book Title: Jain Meghdutam
Author(s): Merutungacharya, Shilratnasuri, Chaturvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 159
________________ सर्गः।] श्रीमन्मेरुतुङ्गसूरिविरचितं १३३ (सि० ३-३-५१) इत्यात्मनेपदम्, अद्यतनी तप्रत्यये सिचि "क्रमः" (सि० ४-४-५३) इति इनिषेधः । वर्षे देयं वार्षिक "काले कार्ये च भववत्" (सि० ५-४-९८) इकणप्रत्ययः, वृद्धिः । अत्र समोदात्तानुप्रासाः ॥ ५० ॥ प्रत्यावृत्ते परिणयभुवः प्राणितेशे निराशा शम्पापातोपमिति पपतोत्पीडिता तत्प्रवृत्त्या । पृथ्वीपीठप्रतिहततमोन्मूलिताधारसाला वल्लीव द्राक् सकलविगलद्भूषणालिप्रसूना ॥५१॥ हे मेघ! अहं निराशा सती शम्पापातोपमिति यथा भवति 'पपत' पतिता, शम्पा विद्युत् तस्याः पातः स च उपमितिः उपमानं यथा भवति, यथा विद्युत् पतति तथा पपातेत्यर्थः । क सति ? 'प्राणितेशे' जीवितव्यस्वामिनि श्रीनेमिनि परिणयभुवः' पाणिग्रहणभूमिकायाः 'प्रत्यावृत्ते' पश्चाद्वलिते सति । किंरूपा ? तत्प्रवृत्त्या' सा वलनरूपा प्रवृत्तिः वार्ता तया 'उत्पीडिता' प्राबल्येन पीडिता । किंरूपाऽहम् ? 'द्राक्' शीघ्रं वल्लीव 'सकलविगलद्भूषणालिप्रसूना' सकला विगलन्ती पतन्ती भूषणानामालिः श्रेणिः सैव प्रसूनानि पुष्पाणि यस्याः । किंरूपा वल्ली ? 'पृथ्वीपीठप्रतिहततमोन्मूलिताधारसाला' पृथ्वीपीठे प्रतिहततमः पातेन भृशं भग्न उन्मूलितः छिन्न आधारसाल: आधारवृक्षो यस्याः। पपतेति "णिद्वाऽन्यो णव्” (सि०४-३-५८) इति वृद्धिविकल्पाद्रूपम् । अत्रोपमानरूपकानुप्रासाः ॥ ५१ ॥ उद्यदुःखज्वरभरवती संनिमज्याहमस्मिन् मोहाम्भोधौ सुखमिव तदा यत् पयोदान्वभूवम् । तापस्तम्सादुदलसदसौ कोऽप्यलं कम्पसम्प द्युक्तो यस्मात्समजनि ममानर्गलो विप्रलापः ॥५२॥ 'हे पयोद !' हे मेघ ! अहं तदा यत् सुखमिव अन्वभूवम् , १२

Loading...

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205