Book Title: Jain Meghdutam
Author(s): Mantungsuri, 
Publisher: Parshwanath Shodhpith Varanasi

View full book text
Previous | Next

Page 355
________________ जैनमेघदूतम् कामः कामं विषमविशिखैरेष जेनीयते यत् यद्वा मन्युः परिभवभवो मां सपत्राकरोति । निर्वीराऽसौ तदहमबलाऽसासहिः पापतिश्चेत् निश्चैतन्यान्नतिपुरुषी खातिका स्यात्तदा किम् ? ॥२८॥ कामः कामं ० हे नेमे ! यत् यस्मात् कारणात् एषः कामः कन्दर्पः विषमविशिखः कृत्वा दुःसहबाणैः कृत्वा कामम् अतिशयेन मां जेनीयते पुनः पुनः हन्ति । यद्वा अथवा यतो हेतोः परिभवभव: पराभवोत्पन्नः मन्युः कोपः मां सपत्राकरोति अत्यर्थ दुःखिनी करोति । तत् तस्मात् हेतोः असो अहं राजीमती अबला असासहिः अत्यर्थ असहमाना सती चेत् यदि निश्चैतन्यात चैतन्याभावात् नवतिपुरुषों नवतिपुरुषप्रमाणां खातिकां पापतिः अत्यर्थ पतितु कामा स्याम् इति योज्यम् तदा तहि कि स्यात् ? किंभूता अहम्-निर्वीरा पतिसुतरहिता इत्यर्थः ।।२८।। यह काम अपने विषम बाणों से मझे बार-बार मार रहा है और अनादर-जन्य क्रोध व्याकुल बना रहा है ऐसी स्थिति में पति पुत्रादि विहीन तथा चिड़चिड़ी मैं होश खोने से यदि नब्बे पुरुषों के बराबर गहरी खाई में कुद पड़े तो क्या होगा? २८।। क— कर्पू मिव निवसितं सदुकूलं कुकूलं ग्लावं दावं नलिनमलिनं भूषणं त्र्यूषणं वा । सर्व सर्वकषविषमसौ मन्यतेऽनन्यनेमो नेमौ नेमौ भवति भवति स्पष्टमाशालतायाः ।।२९।। क) कर्पू मिव • हे स्वामिन् ! भवति त्वयि नेमी नेमिनाथे आशालतायाः आशावल्ल्याः स्पष्टं यथा स्यात् तथा नेमो चक्रधारारूपे भवति सति असौ राजीमती कळू नदी कषूमिव मन्यते करीषाग्निमिव मन्यते । निवसितं परिहितं सद्कूलं प्रधानपट्टदुकूलं कुकूल तुषानलं मन्यते, तथा ग्लावं चन्द्रमसं दावं वनवहिनं मन्यते नलिनं कमलम् अलिनं वृश्चिकं मन्यते, वा पुनः भूषणम् आभरणं यूषणं मन्यते त्रिकटु मन्यते । सर्वम् अन्यदपि सर्व सर्वकषविषं मन्यते सर्वभक्षकविर्ष मन्यते । किंरूपे नेमौ-अनन्यनेमो अन्यान् नमति इति एवंशीलः अन्यनेमिः, न अन्यनेमिः तस्मिन् अनन्यनेमौ ।।२९।। ...हे नाथ किसी को नमन करने वाले ( जगद्वन्द्य होने के कारण तीर्थङ्कर दूसरों को नमन नहीं करते ) आप जब से मेरी आशा लता के 'Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376