Book Title: Jain Meghdutam
Author(s): Mantungsuri, 
Publisher: Parshwanath Shodhpith Varanasi

View full book text
Previous | Next

Page 359
________________ १२० जैनमेघदूतम् आसोदाशे ० हे ईश ! मम इति आशा आसीत् इति मनोरथ आसीत् । इतीति किं-अहं ते तब प्रीतये प्रोत्यर्थं महिषी महिष माता पट्टराज्ञो जनिष्ये भविष्यामि । तु पुनः विधिना विधात्रा प्रत्युत सम्मुखं श्यामा कृष्णा क्षामा दुर्बला उषा धेनु अकृषि कृता । अष्टादशवार्षिका अप्रसूता स्त्री श्यामा उच्यते । किंभूता श्यामा-उषोत्प्रदोषा उषावत् रात्रिरिव उत्प्राबल्येन प्रकृष्टा दोषा अवगुणा यस्यां सा पतिसुतरहितत्वेन मङ्गलकार्यानविकारित्वात् । किंभूता उषारात्रिः-- उत्प्रदोषा उत् उत्कृष्टा प्रदोषौ सन्ध्यासमयो यस्याः सा । हे ईश ! यदि पुन एवं पश्यामि एवमपि पश्यन्त्यस्मि । एवमिति किं-अहं पुनः विधिना अजात्मत्वमपि छागीत्वमपि आपयिष्ये प्रापयिष्ये अथवा अजात्मत्वमपि सिद्धत्वमपि आपयिष्ये । किं कृत्वा-- सर्वतोऽपि सर्वप्रकारेण मूलात् आदितः कर्मप्रकृतिविकृतीः कर्मणां ज्ञानावर्णादीनां कर्मदोहनादिः प्रकृतिः पशूनां स्वभावः विकृतयः पशूनां स्वभावाः ताः प्रकृत्यः प्रकर्षेण कृत्वा द्वितीयपक्षे सर्वतोऽपि समन्ततः मूलात् आदितः कर्मप्रकृतिविकृतीः कर्मणां ज्ञानावर्णादीनां प्रकृतयः कर्मग्रन्थिप्रसिद्धाः १५८ ताभिः प्रकृतिभिः या विकृतयो विकाराः ताः प्रकृत्यः अत्यर्थं छेदयित्वा "कृतैत् छेदने" इति धातोः प्रयोगः ॥३४॥ हे नाथ ! मेरी तो यह इच्छा थी कि मैं आपकी खशी के लिए आपको कृताभिषेक महिषी (राज्ञो) बनू पर विधि ने मुझे दुबली-पतली अप्रसूता महिषी (भैंस) बना दिया मेरी इच्छा थी कि मैं आपके जीवन की उषा (प्रभात) बनूं पर विधि ने प्रदोषा (रात्रि का प्रारम्भ) बना दिया। और अब तो मैं देख रही हैं कि विधि के विधान से कर्मप्रकृति के विकार मोहादि को सर्वथा काटकर (तोड़कर) जन्म से रहित अजा 'बकरी' भी बनना पड़ेगा अर्थात् तपस्या में लीन होकर मोक्ष को प्राप्त कर सिद्धत्व को प्राप्त करना होगा ।।३४॥ यावज्जीवं मदुपहितहज्जीवितेन शयेन प्रेम्णा पास्यत्यमृतमपि मे विन्नमासोत्पुरेति । प्रवज्यायाः पुनरभिलषंस्तन्मुखेनामुचन्मां ज्ञानश्रीयुक् तदथ कमितोन्मुच्य तां तन्नमोऽस्तु ॥३५॥ यावज्जीवं • हे ईश ! पुरा पूर्व इति विन्नं विचारितम् आसीत् । इतीति किजीवितेन जीवितव्येन स्वामीश्रीनेमिनाथः यावम्जीवम् अमृतमपि पानीयमपि मे मम शयेन हस्तेन प्रेम्णा स्नेहेन कृत्वा पास्यति । किंभूतो जीवितेन-मदुपहितहत् मयि उपहितं न्यस्तं हृत् हृदयं बेन सः, पुनः प्रव्रज्यायाः दीक्षायाः मुखेन Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376