Book Title: Jain Meghdutam
Author(s): Mantungsuri, 
Publisher: Parshwanath Shodhpith Varanasi

View full book text
Previous | Next

Page 363
________________ १२४ जैनमेघदूतम् संप्लाव्येत । सः क्षमाभृद्गणः अन्यः कश्चित् । किंभूतः सः-प्रतनगरिमा तुच्छमहिमा । हे राजीमति ! एषः ईश; श्रीनेमिः तत् औन्नत्यं च पुनः तत् माध्यस्थ्यं धत्ते। किंरूपः एषः--अचलगुरु; अचला निश्चलाः तेषु गुरुः, येन औन्नत्येन माध्यस्थेन च ताः ललितललनाचाटुवागभङ्गयः अमुम् ईशं श्रीनेमिनं स्प्रष्ट मपि स्पर्श कर्तुमपि अक्षमाः असमर्थाः किंरूपम् अमुम्-स्फुटवसु स्फुटं प्रकटं वसु कान्तिः यस्य स तम् । अथ श्लेषार्थ:-यः क्षमाभृद्गणः पर्वतसमूहः जलभङ्गिभिः अम्भोधौ संप्लाव्येत । सः क्षमाभृद्गणः अन्यः कश्चित् च पुनः एषः अचलगुरुः मेरुः तत् औन्नत्यम् उच्चस्तरत्वं तत्माध्यस्थ्यं धत्ते । येन औन्नत्येन माध्यस्थ्येन च ताः जलभङ्गयः तम् अचलगुरुं मेरं स्प्रष्टुमपि अक्षमाः। किंभूतम् अमुम्स्फुटवसु स्फुटानि प्रकटानि वसूनि रत्नानि यस्मिन् स तम् ।।४०॥ हे सखि ! छोटे पर्वत को भाँति तुच्छ गरिमा वाला वह यतिसमह अन्य ही है, जो स्त्रियों के चञ्चल नेत्रभङ्गिरूपी जल तरङ्गों से मोह समुद्र में हिलोरे लेने लगता है अर्थात् डूब जाता है। भगवान् नेमिनाथ तो पर्वतों के राजा, रत्नों से दोप्त उस मेरु की तरह कान्तिमान् होकर चारित्र के उस ऊँचाई को प्राप्त कर विश्व के मध्य में स्थित हैं जिन्हें मोहरूपी समुद्र की तरङ्गे स्पर्श करने में भी असमर्थ हैं ॥४०॥ मा विश्वस्या मतिमति ! वर प्राक्पदा वणिनों तां रागोत्सृष्टानुपलशकलान् रज्जयन्ती निरीक्ष्य । चूर्णो नाम्ना स खलु भगवानेष जात्यं तु वज्र नो रागाङ्गरविकलबले रज्यते जातु कैश्चित् ॥४१॥ मा विश्वस्य • हे मतिमति ! हे बुद्धिमति ! त्वं तां सर्वलोकप्रसिद्धां वरप्रापदां वर इति अक्षरद्वयं प्राक्पदे उपपदे यस्य सा ताम् एवं विधां वणिनीम् एतावता वरवणिनीं हरिद्रां रागोत्सृष्टान् रागरहितान् उपलशकलान् पाषाणखण्डान् रञ्जयन्ती निरीक्ष्य विलोक्य मा विश्वस्याः विश्वासं मा कुर्याः । अहमपि वरवणिनी अस्मि प्रधानस्त्री अस्मि । अतः तं नीरागं नेमिनं रजयिष्यामि सरागं करिष्यामि इति सञ्चिन्त्य मा विश्वस्याः । खलु निश्चितं हे सखि ! इति वरवणिन्या रज्यमानः सः उपलशकलगणोः नाम्ना नाम्नाभिधानेन चूर्णः चूर्णकः । अत्र अयं भावः-हरिद्रायोगेन चूर्णको रक्तो भवति इति, तु पुनः एष भगवान् श्रीनेमिः जात्यं सत्यं वन कूलिशं जातु कदाचित् कैश्चित् अविकलबलैः परिपूर्णपराक्रमः रागाङ्गः रागप्रकारः नो रज्यते न रक्तीक्रियते ॥४१।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376