Book Title: Jain Granth Prashasti Sangraha 01
Author(s): Parmanand Jain
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 364
________________ रामचरित्र अन्तभाग: श्रीमद्रामचरित्रमुत्तममिदं नानाकथापूरितं, पापध्वान्तविनाशनैकतरणिं कारुण्यवल्लीबर्न । भव्यणिमनःप्रमोदसदनं भक्त्यानघं कीर्तितं, नानासत्पुरुषालिवेष्टनयुतं पुण्यं शुभं पावनम् ॥१८० श्रीवर्द्धमानेन जिनेश्वरेण त्रैलोक्यवंदेन यदुक्रमादौ । ततः परं गौतमसंज्ञकेन गणेश्वरेण प्रथितं जनानाम् ॥१८१ ततः क्रमाच्छी रविषेण नाम्नाऽऽचार्येण जैनागमकोविदेन । सत्काव्यकेलीसदनेन पृथ्न्यां नीत प्रसिद्धि चरितं रघोश्च ॥१८२ श्री कुन्दकुन्दान्वयभूषणोऽथ बभूव विद्वान किल पद्मनन्दी। मुनीश्वरो वादिगजेन्द्रसिहः प्रतापवान् भूवलये प्रसिद्धः ॥१८३ तत्पट्टपंकजविकामभास्थान बभूव निर्गन्धवरः प्रतापी । महाकवित्वादिकलाप्रवीणस्तपोनिधिः श्रीसकलादिकीर्तिः ॥१८४ प? तदीये गुणवान् मनीषी क्षमानिधानं भुवनादिकीर्तिः । जीयाच्चिरं भव्यसमूहवन्द्यो नानायतीवात निषेवणीयः ॥१८५ जगतिभुवनकीर्तिभूतलख्यातकीर्तिःश्रु तजलनिधिवेत्ताऽनंगमानप्रभेत्ता। विमलगुणनिवास छिमसंसारपाशःस जयतियतिराज साधुराजीसमाज.॥१८६ स ब्रह्मचारी गुरुपूर्वकोऽस्य भ्राता गुणज्ञोऽस्ति विशुद्धचित्तः । जिनस्य दासो जिनदासनामा कामारिजेता विदितो धरित्र्यां ॥१८७ तेन प्रशस्तं चरितं पवित्रं रामस्य नीत्वा रविषेण सूरेः । समुद्धृतं स्वान्यसुखप्रबोधहेतोश्चिरं नन्दतु भूमिपीठे ॥१८८ श्रीमजिनेश्वर-पदांबुजचंचरीकस्तच्छान सदगुरुषु भक्रिविधानदक्षः । सार्थाभिधोऽसौ जिनदास नामा दयानिवासो भुवि राजते च ॥१८६ न ख्याति-पूजाघभिमानलोभाद, ग्रन्थः कृतोऽयं प्रतिबोधहेतोः । निजान्ययोः किन्तु हिताय चापि परोपकाराय जिनागमोऽकः ॥१६० जिनप्रसादादिदमेव याचे दुःखक्षयं शाश्वतसौख्यहेतोः । कर्मवं बोधचरित्रलाभं शुभांगति चेह न चान्यदेव ॥१६॥

Loading...

Page Navigation
1 ... 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398