Book Title: Jain Granth Prashasti Sangraha 01
Author(s): Parmanand Jain
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 376
________________ पयविधानकथा २१३ तत्पादपंकजरजोरचितोत्तमांगः श्रीमल्लिभूषरणगुरुर्विदुषां वरेण्यः । भट्टारको भुवनभव्यसरोजसूर्यो मिथ्यातमोविघटने पटुरेष भाति ॥ ४२ ॥ सर्वशशासनमहामणिमंडितेन तस्योपदेशवशिना श्रुतसागरेण । देशवतिप्रभूतरेण कथेयमुक्का सिद्धिं ददातु गुरुभक्तविभावितभ्यः ॥४३॥ श्रीभानुभूपतिभुजाऽमिजलप्रवाहनिर्मग्नशत्रुकुल जातततः प्रभावः । वृद्ध बडकुले बृहतीलदुर्गे श्रीभोजराज इति मंत्रिवरो बभूव ॥ ४४ ॥ भार्यास्य सा विनयदेव्यभिधा सुधोपसोद्गारवाक् कमलकांतमुखी सखीव । लक्ष्म्याः प्रभोजिनवरस्य पदाब्जभृंगी साध्वी पतिव्रतगुणा मणिवन्महार्ष्या ॥४५ साsसून भूरिगुणरत्नविभूषितांगं श्रीकर्म्मसिंहमितिपुत्रमनूकरत्नम् । कालं च शत्रु-कुल- कालमनूनपुण्यं श्रीघोषरंघनतराघगिरींद्रवज्रम् ॥४६॥ गंगाजल प्रत्रिमलोच्चमनोनिकेतं तुयं च वर्यतरमंगजमत्र गंगम् । जाता पुरस्तदनु पुत्तलिका स्वसैषां वक्तू षु सज्जिनवरस्य सरस्वतीव ॥४७॥ सम्यक्त्वा कलिता किल रेवतीव सीतेव शीलसलिलोक्षितभूरिभूमिः । राजीमती सुभगागुणरत्नराशिर्वेला सरस्वतिइवांचति पुत्तलीह ॥ ४८ ॥ यात्रां चकार गजपंथगिरौ ससंघा ह्य तत्तपोविदधती सुदृढता सा । सच्छ्रांतिकं गणसमर्चनमर्हदीशं नित्यार्चनं सकलसंघसदन्तदानम् ॥४३॥ तुरंगीगिरौ च बलभद्र मुनेः पदाब्जभृंगी तथैव सुकृतं यतिभिश्चकार । श्रीमल्लिभूषण गुरुप्रवरोपदेशाच्छास्त्रं व्यधाय यदिदं कृतिनां हृदिष्टम् ॥५०॥ मातेव व्रतिनां गुणान् विदधती संशृण्वती चागमं पूजादानपरा परोपकृतिकृद्दक्षैव चनन्यक्षतः ( 2 ) | स्त्री वैषांगवशेन मानसत्ता निव्यूढचारुता दीर्घायुर्बलभद्रदेवहदया भूयात्पदं संपदः ॥२५३॥ इति भट्टारक श्रीमल्लि भूषण गुरूपदेशात्सूरिश्रुतसागरविरचिता पल्यविधानवतोपाख्यानकथा समाप्ता ।

Loading...

Page Navigation
1 ... 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398