Book Title: Gatchmat Prabandh Jain Geeta
Author(s): Buddhisagar
Publisher: Adhyatma Gyan Prasarak Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २१ )
मतान्तराऽन्यभेदेषु, मौनं कृत्वा विवेकतः । महासङ्घेन संमील्य, चर्च्या जैनोन्नतिः शुभा ॥ १४६ ॥ सर्वजातिषु धर्मस्य, प्रचारार्थ प्रयत्नतः । कर्तव्या योजना सम्यक्, गीताथानां विवेकतः ।। १४७॥ औदार्य धर्मदृष्टीनां कृत्वाऽऽचारसुधारणाम् । सर्ववर्णाय योग्यो यो, देयो धर्मः सुखावहः || १४८ ॥ महावीरो महादेवो, ब्रह्मा विष्णुर्महेश्वरः । सर्वज्ञः श्रीजगन्नाथः, तस्य धर्मः सनातनः ॥ १४९ ॥ ज्ञातव्या वीरदेवस्य सर्ववेदाः सनातनाः । वीरवाणीमहावेदः, सिद्धान्तो विश्वपावकः || १५० ॥ अनाद्यनन्तरूपेण, जैनधर्मः सनातनः । तद्वक्तारो जिनेन्द्रा वै, सर्वज्ञाः सर्वदर्शिनः ।। १५१ ।। यथा नदीनामन्धौ हि समावेशस्तथा खलु । जैनधर्मे हि लीयन्ते, शेषधर्मा अपेक्षया विश्वोद्धर्त्ता महाशुद्धो, जैनधर्मः सनातनः ।
॥१५२॥
For Private and Personal Use Only

Page Navigation
1 ... 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621