Book Title: Ganitsara Sangrah
Author(s): Mahaviracharya, A N Upadhye, Hiralal Jain, L C Jain
Publisher: Jain Sanskriti Samrakshak Sangh

View full book text
Previous | Next

Page 397
________________ गणितसारसंग्रह प्रति क्रमांक-अ० नं०६१ (२) पत्र १८; प्रतिपत्र १४ पंक्तियों; आकार १०५ ४६" । (५) अ० नं० ६१ । गणितसारसंग्रह प्रतिक्रमांक ६३% अ, प्र०क्र०६५ =ब, प्र०क्र०६४%स अर्थबोधक टिप्पण श्लोक १-१ अलध्यम्-अ मिथ्यादृष्टिभिः । ब मिथ्यादृष्टिभिः लवयितुम् यशक्यमित्यर्थः । स आप्ताभासागम्यम् अतल्लभ्यमस्ति । स त्रिजगत्सारम्-निरावरणत्वादनन्यसाधारणत्वाच्च लोकत्रयसारम् , त्रिजगद्व्याराध्यमित्यर्थः । अ अनन्तचतुष्टयम् अनन्तज्ञान-दर्शन-सुख-वीर्यचतुष्टयम् । स तस्मै महावीराय वर्धमानस्वामिने । स जिनेन्द्राय-एकदेशेन कर्मारातीन् जयन्तीति जिना असंयतसम्यग्दृष्ट्यादयस्तेषामिन्द्रः स्वामी, तस्मै नमः। अतायिने-धर्मोपदेशकत्वेन भव्यत्राणाय । श्लोक १-२ अ जि [जैनेन्द्रेण-जिनो देवता येषां ते जैनाः, तेषामिन्द्रः, तेन । पक्षेजिनेन्द्रस्यायं सम्बन्धी जैनेन्द्रः तेन वा । जिन एव जैनः, स एव इन्द्रः प्रधानो यत्र संख्याज्ञानप्रदीपे सः, तेन । स जैनेन्द्रेण-जिनप्रणीतेन । स संख्याज्ञानप्रदीपेन-गणितशास्त्रज्योतिषा । स महात्विषाबहुप्रकाशेन । स सर्वम् - षड्भव्यसमुदायरूपम् । अ तम्-महावीरम् , पक्षे संख्याज्ञानप्रदीपम् ।। श्लोक १-३ स प्रीणितः–तर्पितः । स प्राणिसस्यौषः विनेयजनस्य संघातः। अ निरीतिःनिर्गता ईतयः अतिवृष्ट्यनावृष्टिमूषक-शलभ-शुक-स्वचक्र-परचक्रलक्षणाः यस्मात् असौ निरीतिः । अ निरवग्रहः-निर्गतोऽवग्रहः शत्रुः यस्मात् यत्र वा सः, व्यथा-वर्षाविधातरहितः। स श्रीमता-लक्ष्मीमता । अ अमोघवर्षेण-सफलवृष्ट्या, पक्षे सत्यस्वरूपोपदेशवृष्ट्या । स सफलसद्धर्मोपदेशामृतवृष्ट्या । अ स्वेष्टहितैषिणा-स्वस्थ इष्टं स्वेष्टम् , तच्च तद्धितं च स्वेष्टहितम्, तदिच्छतीति स्वेष्टहितैषी तेन | वा स्वस्य इष्टाः स्वेष्टाः, तान् प्रति हितम् इच्छतीति स्वेष्ट हितैषी, तेन । स स्वेष्टहितमिच्छता । श्लोक १-४ अ चित्तवृत्तिहविर्भुजी [जि]-शुक्लध्यानानौ। स भस्मसात् भावम्-भस्मस्वरूपम् । 'अईयु:-गच्छन्ति स्म । अ ते-आगमप्रसिद्धाः काम-क्रोधादिशत्रवः। अ अवन्ध्यकोपाः [प]सफलकोपाः इत्यर्थः। श्लोक १-५ स वशीकुर्वन्-स्वाधीनं विदधत् । स नानुवशः-अन्याधीनो न भवति । स परैःएकान्तवादिभिः। अभिभूतः-अ पराभूतः । स तिरस्कृतः । स प्रभुः-जगदाराध्यः। स अपूर्वमकरध्वजः-अभिनवमीनकेतनः। श्लोक १-६ अ विक्रम-क्रमाक्रान्त-चक्रीचक्र-कृतक्रियः-विक्रमक्रमेण पराक्रमसंतत्या आक्रान्ताः ते च ते चक्रिणश्च, तेषां चक्रं समूहः, तेन कृतक्रिया सेवा यस्यासौ तथोक्तः । पक्षे चक्र सेनास्ति येषां ते चक्रिणः, शेषं पूर्ववत् । अ चक्रिकाभञ्जनः-संसारचक्रभञ्जनः, पक्षे-परचक्रभञ्जनः । अ अञ्जसापरमार्थेन । श्लोक १-७ अ विद्यानद्यधिष्ठान:-विद्या द्वादशाङ्गलक्षणाः पक्षे-द्वासप्ततिकलालक्षणास्ता एव नद्यः तासाम् अधिष्ठानम् आश्रयः यः सः। स मर्यादावज्रवेदिकः-मर्यादैव वज्रवेदिका यस्य सः । अ रत्नगर्भः-रत्नानि सम्यग्दर्शनादीनि, पक्षे- स्वादीनि, गर्भे ते यस्य सो [यस्यासौ] । व रत्नानि सम्यग्दर्शना. दीनि, पक्षे–हस्त्यश्वादीनि गर्भे ते यस्यासौ तथोक्तः । अ यथाख्यातचारित्र्य [त्र] जलधिः-क्षायिकचारित्र्य [त्र] जलधिः, पक्षे-यथाख्यातं प्रवृद्धैर्यथोक्तम् , तच्चतच्चारित्र्यं [] आचरणं च ।

Loading...

Page Navigation
1 ... 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426