Book Title: Ganitsara Sangrah
Author(s): Mahaviracharya, A N Upadhye, Hiralal Jain, L C Jain
Publisher: Jain Sanskriti Samrakshak Sangh

View full book text
Previous | Next

Page 398
________________ गणितसारसंग्रह श्लोक १-८ स देवस्य - स जिनस्य । स शासनम् अनेकान्तरूपं वर्धताम् । श्लोक १-९ स लोकिके - वृद्धिव्यवहारादौ । अ वैदिके —आगमे । स सामायिके - प्रतिक्रमणादौ । अ यः यः कश्चित् व्यापारः प्रवृत्तिः तत्र सर्वत्र संख्यानं गणितम् उपयुज्यते उपयोगी भवति । श्लोक १-१० अ अर्थशास्त्रे - जीवादिकपदार्थे । श्लोक १-११ अ प्रस्तुतम् — कथितम् । अपुरा — पूर्वम् । ५९ श्लोक १ – १२ अ ग्रहचारेषु - संक्रमणेषु । ब सूर्यादिसंक्रमणेषु । स ग्रहणे – चन्द्र-सूर्योपरागे । अ ग्रहसंयुतौ — ग्रहयुद्धे । अ त्रिप्रश्ने — त्रयः प्रश्नाः नष्ट - मुष्टि-चिन्तारूपाः यत्र तत् त्रिप्रश्नम्, होराशास्त्रमित्यर्थः, तस्मिन् । स अथवा त्रयो धातु-मूल-जीवविषयाः प्रश्नाः यत्र तत् त्रिप्रश्नम् । प्रश्नव्याकरणाय सद्भावकेवलज्ञान होरादिशास्त्रम् । स चन्द्रवृत्तौ - चन्द्रचारे । ब omits बुध्यन्ते ( श्लोक १४ ) । ब omits — यात्राद्याः ( श्लोक १५ ) । श्लोक १-१३ अ परिक्षिपः - परिधियः । श्लोक १-१४ अ उत्कराः - समूहाः । अ बुध्यन्ते - ज्ञायन्ते । श्लोक १ – १५ अ तत्र — श्रेणीबद्धादिषु जीवानाम् । अ संस्थानम् - समचतुरस्रादि । अ अष्टगुणादयः - अणिमादयेः । अ यात्राद्याः -गति । अ संहिताद्याश्च - संधिप्रतिष्ठाग्रन्थो वा । श्लोक १-१७ अ गुरुपर्वतः - गुरुपरिपाटीभ्यः । श्लोक १-२०-अ कला सवर्ण संरूढ लुठत्पाठीन संकुले – कीदृग्विधे सारसंग्रहवारिधौ । कलासवर्णाः भिन्नप्रत्युपन्नादयः ते एव लुठत्पाठीनास्तेषां संकटे संकोचस्थाने । श्लोक १-२१ अ प्रकीर्णक-अ तृतीयव्यवहारः । अ महाग्राहे — मत्स्यविशेषः । अ मिश्रक - अ वृद्धिव्यवहारादि । श्लोक १-२२ अ क्षेत्रविस्तीर्ण पाताले - त्रिभुज - चतुर्भुजादिक्षेत्राणि एव विस्तीर्णपातालानि यत्र स तस्मिन् । अ खाताख्यसिकता कुले -- खाताख्यम् एव सिकताः ताभिः आकुले | अ करणस्कन्धसंबन्धच्छायाबेला विराजिते - करणस्कन्धेन करणसूत्रसमूहेन संबन्धो यस्याः सा करणस्कन्धसंबन्धा, सा चासौ छायागणितं ( १ ) करणस्कन्धसंबन्धच्छाया, सा एव वेला, तया विराजिता तस्मिन् । श्लोक १-२३ अ गुणसंपूर्णैः - लघुकरणाद्यष्टगुणसंपूर्णैः । करणोपायैः - अ करणानुपयोगोपायैः सूत्रैः । श्लोक १-२४ अ यत् — यस्मात् सर्वशास्त्रे । संज्ञया - अ परिभाषया । श्लोक १-२५-अ परमाणुः । परमाणुस्वरूपम् - अणवः कार्यलिङ्गाः स्युद्विस्पर्शाः परिमण्डलाः । एकवर्ण- रसाः नित्याः स्युरनित्याश्च पर्ययैः ॥ ३४ ( १ ) अप्रदेशिनः इति गोमटसारे । परमाणुपिण्डरहितमिति भावार्थ: । कार्यानुमेयाः घटपटादिपर्यायास्तेषाम् अणूनाम् अस्तित्वे चिह्नम् । सूक्ष्माः वर्तुलाकाराः । कौ द्वौ स्निग्ध-रूक्षयोरन्यतरः शीतोष्णयोरन्यतरः । तथा हि-शीत- रूक्ष, शीतस्निग्ध, उष्ण-स्निग्ध, उष्ण-रूक्ष एकाएवापेक्षया एकयुग्मं भवति । गुरु-लघु-मृदु-कठिनानां परमाणुष्वभावात् तेषां स्कन्धाश्रितत्वात् । • अ तैः - परमाणुभिः । सः - अणुः स्यात् । अत्र सोऽणुः क्षेत्रपरिभाषायाम् । ब परमाणुः – यस्तु तीक्ष्णेनापि शस्त्रेण छेत्तुं भेत्तुं मोचयितुं न शक्यते, जलानलादिभिर्नाशं नैति एकैकरस-वर्ण- गन्ध - द्विस्पर्शम् । स्निग्ध-रूचस्पर्शद्वयमित्युक्तमादिपुराणे । शब्दकारणमशब्दं स्कन्धान्तरितमादि - मध्यावसानरहितमप्रदेशमिन्द्रियैर ग्राह्यमविभागि तत् द्रव्यं परमाणुः ।

Loading...

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426