________________
गणितसारसंग्रह
प्रति क्रमांक-अ० नं०६१ (२) पत्र १८; प्रतिपत्र १४ पंक्तियों; आकार १०५ ४६" । (५) अ० नं० ६१ ।
गणितसारसंग्रह प्रतिक्रमांक ६३% अ, प्र०क्र०६५ =ब, प्र०क्र०६४%स
अर्थबोधक टिप्पण श्लोक १-१ अलध्यम्-अ मिथ्यादृष्टिभिः । ब मिथ्यादृष्टिभिः लवयितुम् यशक्यमित्यर्थः । स आप्ताभासागम्यम् अतल्लभ्यमस्ति । स त्रिजगत्सारम्-निरावरणत्वादनन्यसाधारणत्वाच्च लोकत्रयसारम् , त्रिजगद्व्याराध्यमित्यर्थः । अ अनन्तचतुष्टयम् अनन्तज्ञान-दर्शन-सुख-वीर्यचतुष्टयम् । स तस्मै महावीराय वर्धमानस्वामिने । स जिनेन्द्राय-एकदेशेन कर्मारातीन् जयन्तीति जिना असंयतसम्यग्दृष्ट्यादयस्तेषामिन्द्रः स्वामी, तस्मै नमः। अतायिने-धर्मोपदेशकत्वेन भव्यत्राणाय ।
श्लोक १-२ अ जि [जैनेन्द्रेण-जिनो देवता येषां ते जैनाः, तेषामिन्द्रः, तेन । पक्षेजिनेन्द्रस्यायं सम्बन्धी जैनेन्द्रः तेन वा । जिन एव जैनः, स एव इन्द्रः प्रधानो यत्र संख्याज्ञानप्रदीपे सः, तेन । स जैनेन्द्रेण-जिनप्रणीतेन । स संख्याज्ञानप्रदीपेन-गणितशास्त्रज्योतिषा । स महात्विषाबहुप्रकाशेन । स सर्वम् - षड्भव्यसमुदायरूपम् । अ तम्-महावीरम् , पक्षे संख्याज्ञानप्रदीपम् ।।
श्लोक १-३ स प्रीणितः–तर्पितः । स प्राणिसस्यौषः विनेयजनस्य संघातः। अ निरीतिःनिर्गता ईतयः अतिवृष्ट्यनावृष्टिमूषक-शलभ-शुक-स्वचक्र-परचक्रलक्षणाः यस्मात् असौ निरीतिः । अ निरवग्रहः-निर्गतोऽवग्रहः शत्रुः यस्मात् यत्र वा सः, व्यथा-वर्षाविधातरहितः। स श्रीमता-लक्ष्मीमता । अ अमोघवर्षेण-सफलवृष्ट्या, पक्षे सत्यस्वरूपोपदेशवृष्ट्या । स सफलसद्धर्मोपदेशामृतवृष्ट्या । अ स्वेष्टहितैषिणा-स्वस्थ इष्टं स्वेष्टम् , तच्च तद्धितं च स्वेष्टहितम्, तदिच्छतीति स्वेष्टहितैषी तेन | वा स्वस्य इष्टाः स्वेष्टाः, तान् प्रति हितम् इच्छतीति स्वेष्ट हितैषी, तेन । स स्वेष्टहितमिच्छता ।
श्लोक १-४ अ चित्तवृत्तिहविर्भुजी [जि]-शुक्लध्यानानौ। स भस्मसात् भावम्-भस्मस्वरूपम् । 'अईयु:-गच्छन्ति स्म । अ ते-आगमप्रसिद्धाः काम-क्रोधादिशत्रवः। अ अवन्ध्यकोपाः [प]सफलकोपाः इत्यर्थः।
श्लोक १-५ स वशीकुर्वन्-स्वाधीनं विदधत् । स नानुवशः-अन्याधीनो न भवति । स परैःएकान्तवादिभिः। अभिभूतः-अ पराभूतः । स तिरस्कृतः । स प्रभुः-जगदाराध्यः। स अपूर्वमकरध्वजः-अभिनवमीनकेतनः।
श्लोक १-६ अ विक्रम-क्रमाक्रान्त-चक्रीचक्र-कृतक्रियः-विक्रमक्रमेण पराक्रमसंतत्या आक्रान्ताः ते च ते चक्रिणश्च, तेषां चक्रं समूहः, तेन कृतक्रिया सेवा यस्यासौ तथोक्तः । पक्षे चक्र सेनास्ति येषां ते चक्रिणः, शेषं पूर्ववत् । अ चक्रिकाभञ्जनः-संसारचक्रभञ्जनः, पक्षे-परचक्रभञ्जनः । अ अञ्जसापरमार्थेन ।
श्लोक १-७ अ विद्यानद्यधिष्ठान:-विद्या द्वादशाङ्गलक्षणाः पक्षे-द्वासप्ततिकलालक्षणास्ता एव नद्यः तासाम् अधिष्ठानम् आश्रयः यः सः। स मर्यादावज्रवेदिकः-मर्यादैव वज्रवेदिका यस्य सः । अ रत्नगर्भः-रत्नानि सम्यग्दर्शनादीनि, पक्षे- स्वादीनि, गर्भे ते यस्य सो [यस्यासौ] । व रत्नानि सम्यग्दर्शना. दीनि, पक्षे–हस्त्यश्वादीनि गर्भे ते यस्यासौ तथोक्तः । अ यथाख्यातचारित्र्य [त्र] जलधिः-क्षायिकचारित्र्य [त्र] जलधिः, पक्षे-यथाख्यातं प्रवृद्धैर्यथोक्तम् , तच्चतच्चारित्र्यं [] आचरणं च ।