Book Title: Dvyasrayakavya Part 02
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai

View full book text
Previous | Next

Page 9
________________ ध्याश्रयमहाकाव्यस्य प्रस्तावः ॥ अयि विद्वांसः।व्याकरणशास्त्रस्य प्रणेतार इन्द्रादयोऽष्टौ बभूवुरिति विदितमेव तत्रभवताम् । तेषामेकतमो हेमचन्द्र इदं व्याश्रयं नाम सकलकाव्यगुणवत्त्वात्सूत्रोदाहरणरूपत्वाच्च यथार्थाभिधानं महाकाव्यं रचयामास । अत्र च मूलराजादारभ्य कुमारपालान्तश्चौलुक्यवंशो वर्णितः । “हेमचन्द्रानुग्रहेण कुमारपालो राज्यमवाप । अस्यैवोपदेशाच कुमारपालो जिनमतं बहुमेने । आत्मनो राज्ये च हिंसादीनि दोषबहुलानि कर्माणि स्मृतिशेषतां निनाय । अयं ११४३ मिते निस्ताब्दे राजपदमारुह्य ११७४ मिते निस्ताब्दे दिवं गतः। अस्य गुरुतां गतो हेमचन्द्र इमं ग्रन्थं ११६० मिते ख्रिस्ताव्दे प्रारभ्यापूर्णमेव विहाय स्वर्लोकं जगाम । आभ्य (अभय) तिलकगणिना च जैनसाधुनायं ग्रन्थः १२५५ मिते ख्रिस्ताब्दे पूर्णतां नीतः। हेमचन्द्रस्य 'हैमी नाममाला' 'अनेकार्थमाला' 'अध्यात्मोपनिषद्' 'हैमशब्दानुशासनम्' इत्यादयोऽन्ये च ग्रन्था वर्तन्ते ।” इति 'रावबहादुर मनोहर विष्णु काथवटे' इत्येतैः संपादिते 'भरतखंडाचा प्राचीन इतिहास' इत्यभिधे ग्रन्थे उपलभ्यते । एतद्न्थकर्तृत्वमन्तरेण तु मम 'घ्याश्रयं नाम महाकाव्यं पूर्णमेव हेमचन्द्रो विरचितवान् । वृत्तिस्तु अभयतिलकगणिविरचिता' इति भाति । यतोऽस्य सप्तदशसर्गगतद्विचत्वारिंशत्तमश्लोकवृत्तौ 'अनोजा अम्बुधातेष्विति पाठो युक्तः प्रतिभाति । स्त्रीलिङ्गे पुल्लिङ्गे चास्य समानरूपत्वात् । परमनोजस्काम्बुधातेष्विति पाठः प्रायो दृश्यते । तस्मादनोजस्केत्ययं पुंसि स्त्रीलिङ्गव्यत्ययेन योज्यः ।' इति मूलकतुरात्मनो भेदं दर्शयति । न च वाच्यमेतदुत्तरा द्वित्राः सर्गा अभय तिलकगणिविरचिता भवितुमर्हन्तीति । यतोऽन्तेऽपि 'सुगुरोस्तस्यादेशात्स कर्णकर्णोत्सवं विवृतिमेताम् । स्वमतिविभवानुसारान्मुनिर्व्यधादभयतिलकगणिः ॥' इति स्वस्य वृत्तिकर्तृत्वमेव विदधाति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 628