Book Title: Dvyasrayakavya Part 02
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai
View full book text
________________
व्याश्रयमहाकाव्ये
[कर्णराजः
न निगाद्यं न वा चर्य मद्यपाचर्यभूमिषु ।
नोपसर्यान्तिके चैतां वर्याचार्यस्त्रियोशिषन् ॥ १४ ॥ १३, १४. वर्या आप्तत्वेनोपेया या आचार्यस्त्रियो राजगुरुभार्यास्ता एतां देवीमशिषन्नशिक्षयन् । कथमित्याह । देवि त्वयाविद्यमानं प्रमाद्यं प्रभादो यस्यास्तयाप्रमाद्यया सत्या मन्दं नीचैर्गद्यं वाच्यं तथा नीव्यधोवस्त्रग्रन्थिः श्लथं शिथिलं यम्या बन्ध्या तथा न च मद्यं मद्यपानादिनीं न क्षीबीभाव्यं तथा गतिर्यानं नियम्या नियतीकार्या । अल्पं गम्यमित्यर्थः । तथा चरणौ नायाम्यौ न प्रसार्यो । तथा मद्यपाचर्यभूमिषु मद्यपैर्मद्यपानार्थ सेव्यासु भूमिषु नै निगाद्यं न वाच्यं नै वा चर्य भ्रमणीयं तथोपसर्यान्तिके च ऋतुमतीसमीपे च न निगाद्यं न वाचर्यमिति । उच्चैर्गदनादौ हि गर्भाबाधा मत्ततादौ च छलच्छिद्राद्यनेकदोषसंभव इत्येतानि निषिध्यन्ते ॥
नीत्वानवद्याँ सा मासान्पुण्यपण्यपदं नव । ब्रह्मक्षत्रार्यशद्राणामयं प्रामृत नन्दनम् ॥ १५ ॥ १५. अनवद्यौ निष्पापा सा देवी नव मासान्नीत्वातिक्रम्य नन्दनं पुत्रं प्रासूत । कीदृशम् । पुण्यपण्यपदं धर्मक्रयाणकस्थानमत एव ब्रह्मक्षत्रार्यशूद्राणामयं स्वामिनम् ॥
१ए °पसूया . २ ए °तां चर्या. ३ ए °था मा. ४ बी सी र्यसूद्रा.
१ ए वीनशि. २ ए शिष्यय'. ३ ए °मायो य. ४ ए °ना भ क्षी. ५ ए °सायो । त०. ६ सी डी पाचार्य. ७ ए न न गा. ८ डी न चाच. ९ ए °णी त°. १० ए सी डी तथाप. ११ ए निषंध्य. १२ बी द्या निःपापा. १३ सी 'दृश्यम्. १४ ए धर्म क्र. १५ ए मथ स्वा'.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org