Book Title: Dharmsangraha Author(s): Manvijayji, Yashovijay Upadhyay, Anandsagarsuri, Sagaranandsuri Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 8
________________ संग्रह. द्रव्ये उपचारेणैव संभवात्, अन्योन्यानुगतत्वं च तयोस्तत्र तत्र प्रसिद्धमिति ? ], ॥३॥ प्रदर्शितं धर्मलक्षणम् अथामुमेव धर्म भेदतः प्रभेदतश्च बिभणिषुराह स द्विधा स्यादनुष्ठातृगृहिव्रतिविभागतः । सामान्यतो विशेषाच्च, गृहिधर्मोऽप्ययं द्विधा ॥ ४ ॥ | 'सः' यः पूर्व प्रवक्तमिष्टो धर्मो 'द्विधा' द्वाभ्यां प्रकाराभ्यां 'स्याद्' भवेत्. कुत इत्याह-अनुष्ठातृगृहिबतिविभागतः' इति अनुष्ठातारौ धर्मानुष्ठायको यौ गृहिवतिनौ तयोविभागतो विशेषात्, गृहस्थधर्मो यतिधर्मश्चेति भावः । तत्र गृहमस्यास्तीति गृही तद्धर्मश्च नित्यनैमित्तिकानुष्ठानरूपः, व्रतानि महाव्रतानि विद्यन्ते यस्मिन् स व्रती, तद्धर्मश्च चरणकरणरूपः । तत्र च गृहिधर्म विशिनष्टि-'गृहिधर्मोऽपीति' |"अयं' साक्षादेव हृदि वर्तमानतया प्रत्यक्षो गृहिधर्म उक्तलक्षणः, किं पुनः सामान्यधर्म: ? इत्यपिशब्दार्थः 'द्विधा' विभेदः, दैविध्यं दर्शयति-"सामान्यतो विशेषाच' इति तत्र सामान्यतो नाम सर्वविशिष्टजनसाधारणानुष्ठानरूपः, विशेषात् सम्यग्दर्शनाणुव्रतादिप्रतिपत्तिरूपः, चकार उक्तसमुच्चय इति ॥३॥ तत्राद्यं भेदं दशभिः श्लोकैदर्शयति तत्र सामान्यतो गेहिधर्मो न्यायार्जितं धनम् । वैवाह्यमन्यगोत्रीयैः, कुलशीलसमैः समैम् ॥५॥ शिष्टाचारप्रशंसारिषड्वर्गत्यज॑नं तथा । इन्द्रियाणां जयं उपप्लुतस्थानविवर्जनम् ॥ ६ ॥ Jain Education Intal For Private & Personel Use Only ww.jainelibrary.orgPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 522