________________
संग्रह.
द्रव्ये उपचारेणैव संभवात्, अन्योन्यानुगतत्वं च तयोस्तत्र तत्र प्रसिद्धमिति ? ], ॥३॥ प्रदर्शितं धर्मलक्षणम् अथामुमेव धर्म भेदतः प्रभेदतश्च बिभणिषुराह
स द्विधा स्यादनुष्ठातृगृहिव्रतिविभागतः । सामान्यतो विशेषाच्च, गृहिधर्मोऽप्ययं द्विधा ॥ ४ ॥ | 'सः' यः पूर्व प्रवक्तमिष्टो धर्मो 'द्विधा' द्वाभ्यां प्रकाराभ्यां 'स्याद्' भवेत्. कुत इत्याह-अनुष्ठातृगृहिबतिविभागतः' इति अनुष्ठातारौ धर्मानुष्ठायको यौ गृहिवतिनौ तयोविभागतो विशेषात्, गृहस्थधर्मो यतिधर्मश्चेति भावः । तत्र गृहमस्यास्तीति गृही तद्धर्मश्च नित्यनैमित्तिकानुष्ठानरूपः, व्रतानि महाव्रतानि विद्यन्ते यस्मिन् स व्रती, तद्धर्मश्च चरणकरणरूपः । तत्र च गृहिधर्म विशिनष्टि-'गृहिधर्मोऽपीति' |"अयं' साक्षादेव हृदि वर्तमानतया प्रत्यक्षो गृहिधर्म उक्तलक्षणः, किं पुनः सामान्यधर्म: ? इत्यपिशब्दार्थः 'द्विधा' विभेदः, दैविध्यं दर्शयति-"सामान्यतो विशेषाच' इति तत्र सामान्यतो नाम सर्वविशिष्टजनसाधारणानुष्ठानरूपः, विशेषात् सम्यग्दर्शनाणुव्रतादिप्रतिपत्तिरूपः, चकार उक्तसमुच्चय इति ॥३॥ तत्राद्यं भेदं दशभिः श्लोकैदर्शयति
तत्र सामान्यतो गेहिधर्मो न्यायार्जितं धनम् । वैवाह्यमन्यगोत्रीयैः, कुलशीलसमैः समैम् ॥५॥ शिष्टाचारप्रशंसारिषड्वर्गत्यज॑नं तथा । इन्द्रियाणां जयं उपप्लुतस्थानविवर्जनम् ॥ ६ ॥
Jain Education Intal
For Private & Personel Use Only
ww.jainelibrary.org