________________
प्राप्त, तथा च प्रीतिभक्त्यसङ्गानुष्ठानेष्वव्याप्तिरिति चेन, वचनव्यवहारक्रियारूपधर्मस्यैवात्र लक्ष्यत्वेनाव्यास्यभावादिति । वस्तुतः प्रीतिभक्तित्वे इच्छागतजातिविशेषौ, तबज्जन्यत्वेन प्रीतिभत्त्यनुष्ठानयोर्भेदः, वचनानुष्ठानत्वं वचनस्सरणनियतप्रवृत्तिकत्वम्, एतत्रितयभिन्नानुष्ठानत्वम् असङ्गानुष्ठानत्वं निर्विकल्पस्वरसवाहिप्रवृत्तिकत्वं वा । इह तु वचनादित्यत्र वेदात्प्रवृत्तिरित्यत्रेव प्रयोज्यत्वार्थिका पञ्चमी, तथा च-वचनप्रयोज्यप्रवृत्तिकत्वं लक्षणमिति न कुत्राप्यव्याप्तिदोषावकाशः, प्रीतिभक्त्यसङ्गानुष्ठानानामपि वचनप्रयोज्यत्वानपायात्. “धर्मश्चित्तप्रभवो, यतः क्रियाधिकरणाश्रयं कार्यम् । मलविगमेनैतत् खलु, पुष्ट्यादिमदेष विज्ञेयः।१।रागादयो मलाः खल्वागमसद्योगतो विगम एषाम् । तदयं क्रियात एव हि, पुष्टिश्चित्तस्य शुद्धस्यः (शुद्धिश्च चित्तस्य)।२। पुष्टिः पुण्योपचयः, शुद्धिः पापक्षयेण निर्मलता। अनुबन्धिनि दयेऽस्मिन् , क्रमेण मुक्तिः परा ज्ञेया।३।” इत्यादि षोडशकग्रन्थानुसारेण तु पुष्टिशुद्धिमच्चित्तं भावधर्मस्य लक्षणम्, तदनुगता क्रिया च व्यवहारधर्मस्येति पर्यवसन्नम् । प्रतिपादितं चेत्थमेव महोपाध्यायश्रीयशोविजयगणिभिरपि वकृतद्वात्रिंशिकायाम् । इत्थं च शुद्धानुष्ठानजन्या कर्ममलापगमलक्षणा सम्यग्दर्शनादिनिर्वाणवीजलाभफला जीवशुडिरेव धर्मः । यच्चेहाविरुद्धवचनादनुष्ठानं धर्म इत्युच्यते तत्तूपचारात, यथानङ्गलोदकं पादरोगः। एतेन व्यवहारभावधर्मयोरुभयोरपि लक्षणे उपपादिते भवतः, भावलक्षणस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org