________________
धर्म
संग्रह.
॥२॥
कचित्किञ्चिदविरुद्धमपि वचनमुपलभ्यते, मार्गानुसारिबुद्धौ वा प्राणिनि कचित्, तदपि जिनप्रणीतमेव, त-हा न्मूलस्वात्तस्य, तदुक्तमुपदेशपदे-“सव्वप्पवायमूलं, दुवालसंगं जओ जिणक्खायं । रयणागरतुल्लं खल, तो सव्वं सुंदरं तम्मित्ति" कीदृशमनुष्ठानं धर्म इत्याह 'यथोदितं' यथा येन प्रकारेण कालाद्याराधनानुसाररूपेण उदितं प्रतिपादितं, तत्रैवाविरुद्ध वचने इति गम्यम्, अन्यथाप्रवृत्तौ तु तद्वेषित्वमेवापद्यते नतु| धर्मः, यथोक्तं-“तत्कारी स्यात् स नियमात्, तद्वेषी चेति यो जडः। आगमार्थे तमुल्लङ्य, तत एव प्रवतते" इति । धर्मदासक्षमाश्रमणैरप्युक्तं-"जो जहवायं न कुणइ, मिच्छादिही तओ उ को अन्नो । वड्ढेई४ मिच्छत्तं, परस्स संकं जणेमाणोत्ति” पुनरपि कीदृशमित्याह-'मैत्र्यादिभावसंमिश्रं' मैत्र्यादयः मैत्रीमुदिताकरुणामाध्यस्थ्यलक्षणा ये भावा अन्तःकरणपरिणामाः तत्पूर्वकाश्च बाह्यचेष्टाविशेषाः सत्त्वगुणाऽधिकक्लिश्यमानाविनेयेषु तैः संमिश्रं संयुक्तं, मैत्र्यादिभावानां निःश्रेयसाभ्युदयफलधर्मकल्पद्रुममूलत्वेन शास्त्रान्तरेषु प्रतिपादनात्, तत्र समस्तसत्त्वविषयः स्नेहपरिणामो मैत्री १ नमनप्रसादादिभिर्गुणाधिकेष्वभिव्यज्यमानान्तर्भक्तिरनुरागः प्रमोदः २। दीनादिष्वनुकम्पा करुणा३। अरागद्वेषभावो माध्यस्थ्यमिति ४।] तदेवंविधमनुष्टानं 'धर्म इति' दुर्गतिपतजन्तुजातधारणात्वर्गादिसुगतौ धानाच्च धर्म इत्येवंरूपत्वेन 'कीर्त्यते' शब्द्यते सकलाऽकल्पितभावकल्पनाकल्पनकुशलैः सुधीभिरिति । [नन्वेवं वचनानुष्ठानं धर्म इति । १ काशीविबुधविजयावाप्तन्यायविशारदपदग्रन्थशतग्रथनवितीर्णन्यायाचार्यपदाचार्यप्रवरप्रसादप्राप्तोपाध्यायपदश्रीमद्यशोविजयप्रणीतटीप्पणीस्थानोपलक्षणमिदम् ।
-450955555551ERA
॥२॥
in Education C
la
For Private & Personel Use Only
IN
w.jainelibrary.org