SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ धर्म संग्रह. ॥२॥ कचित्किञ्चिदविरुद्धमपि वचनमुपलभ्यते, मार्गानुसारिबुद्धौ वा प्राणिनि कचित्, तदपि जिनप्रणीतमेव, त-हा न्मूलस्वात्तस्य, तदुक्तमुपदेशपदे-“सव्वप्पवायमूलं, दुवालसंगं जओ जिणक्खायं । रयणागरतुल्लं खल, तो सव्वं सुंदरं तम्मित्ति" कीदृशमनुष्ठानं धर्म इत्याह 'यथोदितं' यथा येन प्रकारेण कालाद्याराधनानुसाररूपेण उदितं प्रतिपादितं, तत्रैवाविरुद्ध वचने इति गम्यम्, अन्यथाप्रवृत्तौ तु तद्वेषित्वमेवापद्यते नतु| धर्मः, यथोक्तं-“तत्कारी स्यात् स नियमात्, तद्वेषी चेति यो जडः। आगमार्थे तमुल्लङ्य, तत एव प्रवतते" इति । धर्मदासक्षमाश्रमणैरप्युक्तं-"जो जहवायं न कुणइ, मिच्छादिही तओ उ को अन्नो । वड्ढेई४ मिच्छत्तं, परस्स संकं जणेमाणोत्ति” पुनरपि कीदृशमित्याह-'मैत्र्यादिभावसंमिश्रं' मैत्र्यादयः मैत्रीमुदिताकरुणामाध्यस्थ्यलक्षणा ये भावा अन्तःकरणपरिणामाः तत्पूर्वकाश्च बाह्यचेष्टाविशेषाः सत्त्वगुणाऽधिकक्लिश्यमानाविनेयेषु तैः संमिश्रं संयुक्तं, मैत्र्यादिभावानां निःश्रेयसाभ्युदयफलधर्मकल्पद्रुममूलत्वेन शास्त्रान्तरेषु प्रतिपादनात्, तत्र समस्तसत्त्वविषयः स्नेहपरिणामो मैत्री १ नमनप्रसादादिभिर्गुणाधिकेष्वभिव्यज्यमानान्तर्भक्तिरनुरागः प्रमोदः २। दीनादिष्वनुकम्पा करुणा३। अरागद्वेषभावो माध्यस्थ्यमिति ४।] तदेवंविधमनुष्टानं 'धर्म इति' दुर्गतिपतजन्तुजातधारणात्वर्गादिसुगतौ धानाच्च धर्म इत्येवंरूपत्वेन 'कीर्त्यते' शब्द्यते सकलाऽकल्पितभावकल्पनाकल्पनकुशलैः सुधीभिरिति । [नन्वेवं वचनानुष्ठानं धर्म इति । १ काशीविबुधविजयावाप्तन्यायविशारदपदग्रन्थशतग्रथनवितीर्णन्यायाचार्यपदाचार्यप्रवरप्रसादप्राप्तोपाध्यायपदश्रीमद्यशोविजयप्रणीतटीप्पणीस्थानोपलक्षणमिदम् । -450955555551ERA ॥२॥ in Education C la For Private & Personel Use Only IN w.jainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy