SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ SHASSAGARLS तिपादनबारेण भगवतो महावीरस्य पारमार्थिकी स्तुतिरभिहितेति भाव इति श्लोकयुग्मार्थः ॥ १ ॥२॥ अथ धर्मपदवाच्यमाह वचनादविरुद्धाद्यदनुष्ठानं यथोदितम् । मैत्र्यादिभावसम्मिश्रं, तद्धर्म इति कीर्त्यते ॥३॥ . . उच्यते इति वचनमागमस्तस्माद्वचनमनुमृत्येत्यर्थः, यत् अनुष्ठानं इहलोकपरलोकावपेक्ष्य हेयोपादेययोरर्थयोरिहैव शास्त्रे वक्ष्यमाणलक्षणयोर्हानोपादानलक्षणा प्रवृत्तिरिति, तद्धर्म इति कीर्त्यते इत्युत्तरेण योगः, कीदृशावचनादित्याह-अविरुद्धात् कषच्छेदतापेषु अविघटमानात्, तत्र विधिप्रतिषेधयोर्बाहुल्येनोपवर्णनं कषशुद्धिः, पदे पदे तद्योगक्षेमकारिक्रियोपदर्शनं छेदशुद्धिः, विधिप्रतिषेधतद्विषयाणां जीवादिपदार्थानां च स्याद्वादपरीक्षया याथात्म्येन समर्थनं तापशुद्धिः, तदुक्तं धर्मबिन्दौ-"विधिप्रतिषेधौ कषः । तत्सम्भवपालनाचेष्टोक्तिश्छेदः । उभयनिबन्धनभाववादस्ताप” इति । तच्चाविरुद्धं वचनं जिनप्रणीतमेव, निमित्तशुद्धः; वचनस्य हि वक्ता निमित्तमन्तरङ्ग, तस्य च रागद्वेषमोहपारतच्यमशुद्धिस्तेभ्यो वितथवचनप्रवृत्तेः, न चैषाsशुद्धिर्जिने भगवति, जिनत्वविरोधात्, जयति रागद्वेषमोहरूपान्तरङ्गान् रिपूनितिशब्दार्थानुपपत्तेः, तपनदहनादिशब्दवदन्वर्थतया चास्याभ्युपगमादू, निमित्तशुद्ध्यभावान्नाजिनप्रणीतवचनमविरुद्धं, यतः कारणख रूपानुविधायि कार्य, तन्न दुष्टकारणारब्धं कार्यमदुष्ट भवितुमर्हति निम्बबीजादिवेक्षुयष्टिरिति, अन्यथा कारहणव्यवस्थोपरमप्रसङ्गात्, यच्च यदृच्छाप्रणयनप्रवृत्तेषु तीर्थान्तरीयेषु रागादिमत्स्वपि घुणाक्षरोत्किरणव्यवहारेण Jain Education In t el For Private & Personel Use Only tohdjainelibrary.org जा
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy