________________
SHASSAGARLS
तिपादनबारेण भगवतो महावीरस्य पारमार्थिकी स्तुतिरभिहितेति भाव इति श्लोकयुग्मार्थः ॥ १ ॥२॥ अथ धर्मपदवाच्यमाह
वचनादविरुद्धाद्यदनुष्ठानं यथोदितम् । मैत्र्यादिभावसम्मिश्रं, तद्धर्म इति कीर्त्यते ॥३॥ . . उच्यते इति वचनमागमस्तस्माद्वचनमनुमृत्येत्यर्थः, यत् अनुष्ठानं इहलोकपरलोकावपेक्ष्य हेयोपादेययोरर्थयोरिहैव शास्त्रे वक्ष्यमाणलक्षणयोर्हानोपादानलक्षणा प्रवृत्तिरिति, तद्धर्म इति कीर्त्यते इत्युत्तरेण योगः, कीदृशावचनादित्याह-अविरुद्धात् कषच्छेदतापेषु अविघटमानात्, तत्र विधिप्रतिषेधयोर्बाहुल्येनोपवर्णनं कषशुद्धिः, पदे पदे तद्योगक्षेमकारिक्रियोपदर्शनं छेदशुद्धिः, विधिप्रतिषेधतद्विषयाणां जीवादिपदार्थानां च स्याद्वादपरीक्षया याथात्म्येन समर्थनं तापशुद्धिः, तदुक्तं धर्मबिन्दौ-"विधिप्रतिषेधौ कषः । तत्सम्भवपालनाचेष्टोक्तिश्छेदः । उभयनिबन्धनभाववादस्ताप” इति । तच्चाविरुद्धं वचनं जिनप्रणीतमेव, निमित्तशुद्धः; वचनस्य हि वक्ता निमित्तमन्तरङ्ग, तस्य च रागद्वेषमोहपारतच्यमशुद्धिस्तेभ्यो वितथवचनप्रवृत्तेः, न चैषाsशुद्धिर्जिने भगवति, जिनत्वविरोधात्, जयति रागद्वेषमोहरूपान्तरङ्गान् रिपूनितिशब्दार्थानुपपत्तेः, तपनदहनादिशब्दवदन्वर्थतया चास्याभ्युपगमादू, निमित्तशुद्ध्यभावान्नाजिनप्रणीतवचनमविरुद्धं, यतः कारणख
रूपानुविधायि कार्य, तन्न दुष्टकारणारब्धं कार्यमदुष्ट भवितुमर्हति निम्बबीजादिवेक्षुयष्टिरिति, अन्यथा कारहणव्यवस्थोपरमप्रसङ्गात्, यच्च यदृच्छाप्रणयनप्रवृत्तेषु तीर्थान्तरीयेषु रागादिमत्स्वपि घुणाक्षरोत्किरणव्यवहारेण
Jain Education In
t
el
For Private & Personel Use Only
tohdjainelibrary.org
जा