________________
धर्म
संग्रह
अहं श्रुताब्धेः सकाशात्, तथा सम्प्रदायाद्गुरुपारम्पर्यात्, तथा खानुभवाच खकीयश्रुतचिन्तोत्तरोत्पन्नदभावनाज्ञानाच, ज्ञात्वा निर्णीय, धर्ममिति शेषः । सिद्धान्तसारं आगमस्य सारभूतं, उत्तमं च लोकोत्तरधर्म
निरूपकत्वात्, धर्मसंग्रहं धर्मसंग्रहनामकं शास्त्रं, तत्र संगृह्यतेऽनेनेति संग्रहः "पुंनान्नि” (५-३-१३०) इति करणे घा, धर्मस्य वक्ष्यमाणलक्षणस्य संग्रहो धर्मसंग्रह इति, यद्वा धर्मस्य संग्रहो यत्र स धर्मसंग्रह इति व्युत्पत्तिस्तं अनामि रचयामीति क्रियाकारकसण्टङ्कः। किं कृत्वा? विशेषेण ईरयति क्षिपति तत्तत्कआणीति वीरः, “विदारयति यत्कर्म, तपसा च विराजते । तपोवीर्येण युक्तश्च, तस्माद्वीर इति स्मृतः” इतिलक्षणनिरुक्ताबा वीरः, महाँश्चासावितरवीरापेक्षया वीरश्च महावीरः, वीरत्वं च दानयुद्धधर्मभेदात्रिधा, यदाहुः कृत्वा हाटककोटिभिर्जगदसदारिद्यमुद्राकथं, हत्वा गर्भशयानपि स्फुरदरीन् मोहादिवंशोद्भवान् । तप्त्वा दुस्तपमस्पृहेण मनसा कैवल्यहेतुं तपस्त्रेधा वीरयशो दधद्विजयतां वीरस्त्रिलोकीगुरुः ॥१॥ तं प्रणम्य प्रकर्षेण भावपूर्वकं मनोवाकायैर्नवेति सम्बन्धः, शेषाणि महावीरपदविशेषणानि, तैस्तु सद्भूतार्थप्रतिपादनपरैश्चत्वारो भगवदतिशयाः प्रकाश्यन्ते, तत्र पूर्वार्धन पूजातिशयः, तत्त्वज्ञमित्यन्येन ज्ञानातिशयः; तत्त्वं सकलपर्यायोपेतसकलवस्तुखरूपं जानातीति व्युत्पत्तेः, तत्त्वदेष्टारमित्यनेन तु वचनातिशयः; तत्त्वं दिशतीति व्युत्पत्तिसिद्धेः, जिनोत्तममित्यनेन तु अपायापगमातिशयः; अपायभूता हि रागादयस्तदपगमेन भगवतः खरूपलाभः, स च जयति रागद्वेषमोहरूपान्तरङ्गान् रिपूनिति शब्दार्थात्सिद्धः। तदेवं चतुरतिशयप्र
CREAसल
Jain Education in
For Private & Personel Use Only
Wjainelibrary.org