________________
सुप्रातिवेश्मिके स्थानेऽनतिप्रकटगुप्तके । अनैकनिर्गमद्वारं, गृहस्य विनिवेशनम् ॥७॥ पापभीरुका ख्यातदेशाचारप्रपालनम् । सर्वेष्वनपवादित्वं, नृपादिषु विशेषतः ॥ ८॥ आयोचितव्ययो वेषो, विभवाद्यनुसारतः । मातापित्रर्चनं सङ्गः, सदाचारैः कृतज्ञतौ ॥९॥ अजीर्णेऽभोजनं काले, भुक्तिः सात्म्यादलोल्यतः । वृत्तस्थज्ञानवृद्धार्हा, गर्हितेष्वप्रवर्त्तनमें ॥१०॥ भर्त्तव्यभरणं दीर्घदृष्टिर्द्धर्मश्रुतिर्दया । अष्टबुद्धिगुणैर्योगः, पक्षपातो गुणेषु च ॥ ११ ॥ सदाऽनभिनिवेशश्च, विशेषज्ञानमन्वहम् । यथार्हमतिथौ साधौ, दीने च प्रतिपन्न ॥ १२ ॥ अन्योऽन्यानुपघातेन, त्रिवर्गस्यापि साधन । अदेशाकालाऽचरणं, बलाबलविचारणमे ॥ १३ ॥ | यथार्ह लोकयात्रा चे, परोपकृतिपाटवम् । हीः सौम्यतों चेति जिनैः, प्रज्ञप्तो हितकारिभिः॥१४॥
दशभिः कुलकम् 'तत्र' तयोः सामान्यविशेषरूपयोः गृहस्थधर्मयोर्वक्तुमुपक्रान्तयोर्मध्ये 'सामान्यतो गेहिधर्मः' इति अमुना प्रकारेण 'हितकारिभिः' परोपकरणशीलैर्जिनरहद्भिः 'प्रज्ञप्त' प्ररूपित इत्यन्तेन संबन्धः । स च
in Education
a
l
For Private & Personel Use Only
C
M
jainelibrary.org