SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ CA5 धर्म संग्रह. ॥४॥ कृपया लिगर्विताः । स्वामित्रखजनादितं धनम्, गर्वार्थोपार्जनप-/ परलोकहितायतात्मानः, पापा मागकरणाचेहलोका न्या यथा-न्यायार्जितं धनमित्यादि । तत्र खामिद्रोहमित्रद्रोहविश्वसितवञ्चनचौर्यादिगार्थोपार्जनपरिहारेणार्थोपार्जनोपायभूतः खखवर्णानुरूपः सदाचारो न्यायस्तेनार्जितं संपादितं धनम्, अयमेव धर्मः, न्यायार्जितं हि धनं अशङ्कनीयतया खशरीरेण तत्फलभोगामित्रखजनादौ संविभागकरणाचेहलोकहिताय यदाह-"सर्वत्र शुचयो धीराः, खकर्मबलगर्विताः । खकर्मनिन्दितात्मानः, पापाः सर्वत्र शङ्किताः॥१॥" सत्पात्रेषु विनियोगात् दीनादौ कृपया वितरणाच्च परलोकहिताय, पठ्यते च धार्मिकस्य धनस्य शास्त्रान्तरे दानस्थानम् यथा “पात्रे दीनादिवर्गे च, दानं विधिवदिष्यते । पोष्यवर्गाविरोधेन, न विरुद्धं स्वतश्च यत् ।१।” अन्यायोपात्तं तु लोकदयेऽप्यहितायैव, इहलोके विरुद्धकारिणो वधबन्धाद्यो दोषाः, परलोके च नरकादिगमनादयः । यद्यपि कस्यचित्पापानुबन्धिपुण्यानुभावादैहलोकिकी विपन्न दृश्यते तथाप्यायल्यामवश्यंभाविन्येव, यतः “पापेनैवार्थरागान्धः, फलमामोति यत् क्वचित् । बडिशामिषवत्तत्तमविनाश्य न जीर्यति" इति न्याय एव परमार्थतोऽर्थोपार्जनोपायोपनिषत् यदाह-"निपानमिव मण्डूकाः, सरः पूर्णमिवाण्डजाः। शुभकर्माणमायान्ति, विवशाः सर्वसम्पदः॥१॥” ईदृशं धनं च गार्हस्थ्ये प्रधानकारणत्वेन धर्मतयादौ निर्दिष्टम् , अन्यथा तदभावे निर्वाहविच्छेदेन गृहस्थस्य सर्वश्रुतक्रियोपरमप्रसङ्गाधर्म एव स्यात्, पठ्यते च “वित्तीवोच्छेयमी, गिहिणो सीयंति सव्वकिरियाउ।निरविक्खस्स उ जुत्तो, संपुन्नो संजमो चेव ॥१॥” इति । तथा गोत्रं नाम तथाविधैकपुरुषप्रभवो वंशः, अन्यच तद्गोत्रं चान्यगोत्रं, तत्र भवा अन्यगोत्रीयाः, अति ॥४ ॥ Jain Education For Private & Personel Use Only M. jainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy