Book Title: Dharmsangraha
Author(s): Manvijayji, Yashovijay Upadhyay, Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 17
________________ पूर्वभोजनेऽईजीणे इत्यर्थः, अभोजनं भोजनत्यागः। अजीर्णभोजने हि सर्वरोगमूलस्य वृद्धिरेव कृता भभवति । यदाह-"अजीर्णप्रभवा रोगाः' इति । तत्राजीण चतुर्विधम्-आमं, विदग्धं, विष्टब्ध, रसशेषं तथा परम् । आमे तु द्रवगन्धित्वं, विदग्धे धूमगन्धिता। १ । विष्टब्धे (च) गात्रभङ्गो, रसशेषे तु जाड्यता" द्रवग-18 धित्वमिति द्रवस्य गूथस्य कुथितनक्रादेरिव गन्धो यस्यास्ति तत्तथा तद्भावस्तत्त्वमिति। "मलवातयोर्विगन्धो, विडेदोगात्रगौरवमरौच्यम् ।अविशुद्धश्वोद्गारः षडजीर्णेव्यक्तलिङ्गानि।१।मूर्छा, प्रलापो, वमथुः,प्रसेकः,सदनं, भ्रमः। उपद्रवा भवन्त्येते,मरणं वाप्यजीर्णतः।।” प्रसेक इति अधिकनिष्ठीवनप्रवृत्तिः,सदनमिति अङ्गग्लानिरिति १६ । तथा काले बुभुक्षोदयावसरलक्षणे सात्म्यात् 'पानाहारादयो यस्याविरुहाः प्रकृतेरपि । सुखित्वाय च कल्प्यन्ते, तत्सात्म्यमिति गीयत' इत्येवंलक्षणादलौल्यतश्च, चकारो गम्या, आकाङ्कातिरेकादधिकभोजनलक्षणलौल्यत्यागात् भुक्ति जनम् , अयमभिप्रायः-आजन्म सात्म्येन भुक्तं विषमपि पथ्यं भवति। परं असात्म्यमपि पथ्यं सेवेत न पुनः सात्म्यप्राप्तमप्यपथ्यं, सर्व बलवतः पथ्यमिति मन्वानः कालकूटं खादन्सुशिक्षितो हि विषतत्रज्ञो नियत एव कदाचिद्विषात्, सात्म्यमपि च लौल्यपरिहारेण यथाग्निबलमेव भुजीत, अतिरिक्तभोजनं हि वमनविरेचनमरणादिना न साधु भवति “यो हि मितं भुते स बहु भुङ्क्ते" अक्षुधितेन ह्यमृतमपि भुक्तं भवति विषं, तथा क्षुत्कालातिक्रमादन्नद्वेषो देहसाश्च भवति, विध्यातेऽग्नौ किं नामेन्धनं कुर्यादिति १७॥ तथा वृत्तमनाचारपरिहारः सम्यगाचारपालनं च तत्र तिष्ठन्तीति वृत्तस्थाः, ज्ञानं Jain Education in For Private & Personel Use Only Mainelibrary.org

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 522