________________
पूर्वभोजनेऽईजीणे इत्यर्थः, अभोजनं भोजनत्यागः। अजीर्णभोजने हि सर्वरोगमूलस्य वृद्धिरेव कृता भभवति । यदाह-"अजीर्णप्रभवा रोगाः' इति । तत्राजीण चतुर्विधम्-आमं, विदग्धं, विष्टब्ध, रसशेषं तथा
परम् । आमे तु द्रवगन्धित्वं, विदग्धे धूमगन्धिता। १ । विष्टब्धे (च) गात्रभङ्गो, रसशेषे तु जाड्यता" द्रवग-18 धित्वमिति द्रवस्य गूथस्य कुथितनक्रादेरिव गन्धो यस्यास्ति तत्तथा तद्भावस्तत्त्वमिति। "मलवातयोर्विगन्धो, विडेदोगात्रगौरवमरौच्यम् ।अविशुद्धश्वोद्गारः षडजीर्णेव्यक्तलिङ्गानि।१।मूर्छा, प्रलापो, वमथुः,प्रसेकः,सदनं, भ्रमः। उपद्रवा भवन्त्येते,मरणं वाप्यजीर्णतः।।” प्रसेक इति अधिकनिष्ठीवनप्रवृत्तिः,सदनमिति अङ्गग्लानिरिति १६ । तथा काले बुभुक्षोदयावसरलक्षणे सात्म्यात् 'पानाहारादयो यस्याविरुहाः प्रकृतेरपि । सुखित्वाय च कल्प्यन्ते, तत्सात्म्यमिति गीयत' इत्येवंलक्षणादलौल्यतश्च, चकारो गम्या, आकाङ्कातिरेकादधिकभोजनलक्षणलौल्यत्यागात् भुक्ति जनम् , अयमभिप्रायः-आजन्म सात्म्येन भुक्तं विषमपि पथ्यं भवति। परं असात्म्यमपि पथ्यं सेवेत न पुनः सात्म्यप्राप्तमप्यपथ्यं, सर्व बलवतः पथ्यमिति मन्वानः कालकूटं खादन्सुशिक्षितो हि विषतत्रज्ञो नियत एव कदाचिद्विषात्, सात्म्यमपि च लौल्यपरिहारेण यथाग्निबलमेव भुजीत, अतिरिक्तभोजनं हि वमनविरेचनमरणादिना न साधु भवति “यो हि मितं भुते स बहु भुङ्क्ते" अक्षुधितेन ह्यमृतमपि भुक्तं भवति विषं, तथा क्षुत्कालातिक्रमादन्नद्वेषो देहसाश्च भवति, विध्यातेऽग्नौ किं नामेन्धनं कुर्यादिति १७॥ तथा वृत्तमनाचारपरिहारः सम्यगाचारपालनं च तत्र तिष्ठन्तीति वृत्तस्थाः, ज्ञानं
Jain Education in
For Private & Personel Use Only
Mainelibrary.org