SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ +MAR धर्म पमान मङ्गलमूर्तिर्भवति संग्रह ।” मूलमित्यनुबन्धयाय, मातुश्शाध्यर्हितत्वात्पवयता" इति पथ्यो हि पुमान् मङ्गलमूर्तिर्भवति मङ्गलाच श्रीसमुत्पत्तियथोक्तं "श्रीर्मङ्गलात्प्रभवति, प्रागल्भ्याच प्रवईते। दाक्ष्यात्तु कुरुते मूलं, संयमात्प्रतितिष्ठति ।१।” मूलमित्यनुबन्धं, प्रतितिष्ठतीति प्रतिष्ठां लभत इति १२॥ तथा माता च पिता च मातापितरौ "आ बन्दे" (३-२-३९) इत्यात्त्वं, मातुश्चाभ्यर्हितत्वात्पूर्वनिपातः यन्मनु:-"उपाध्याया दशाचार्य, आचार्याणां शतं पिता। सहस्रं तु पितुर्माता, गौरवणातिरिच्यते।" इति माता जननी पिता जनकस्तयोरर्चनम् पूजनम्, त्रिसन्ध्यं प्रणामकरणेन परलोकहितानुष्ठाननियोजनेन सकलव्यापारेषु तदाज्ञया प्रवृत्त्या वर्णगन्धादिप्रधानस्य पुष्पफलादिवस्तुन उपढौकनेन तद्भोगे भोगेन चान्नादीनां तदीयव्रतविशेषोल्लङ्घनव्यापारादिलक्षणौचित्यातिक्रमवर्जनेनेति १३॥ तथा सत् शोभन आचार इहपरलोकहितावहा प्रवृत्तिर्येषां ते सदाचारास्तैः सह सङ्गः संगतिः, असत्सङ्गे हि सपदि शीलं विलीयेत । यदाह-"यदि सत्संगतिरतो, भविष्यसि भविष्यसि । अथासज्जनगोष्ठीषु, पतिष्यसि पतिष्यसि ।१।" इति । तथा “सङ्गः सर्वात्मना त्याज्यः, स चेत् त्यक्तुं न शक्यते । स सद्भिः सह कर्त्तव्यः, सन्तः सङ्गस्य भेषजम् । २।" इति च १४। तथा कृतस्य ज्ञता ज्ञानं अनिवः, एवं हि तस्य महान् कुशललाभो भवति, अत एव कृतोपकारं शिरसि भारमिव मन्यमानाः कदापि न विस्मरन्ति साधवस्तदुक्तम्-प्रथमवयसि पीतं तोयमल्पं स्मरन्तः, शिरसि निहितभारा नालिकेरा नराणाम् । उदकममृतकल्पं दद्यराजीवितान्तं, नहि कृतमुपकारंसाधवो विस्मरन्ति ।१।इति १५॥९॥तथा अजीर्णेऽजरणे पूर्वभोजनस्य,अथवाऽजीर्णे परिपाकमनागते SUOSISAASTARAARSSOS ॥ ७ ॥ Jain Educaton International For Private & Personel Use Only www.jainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy