________________
घ० सं० २
Jain Education In
- " यद्यपि सकलां योगी, छिद्रां पश्यति मेदिनीम् । तथापि लौकिकाचारं, मनसापि न लङ्घयेत् ॥ १ ॥” इति९ | तथा सर्वेषु जघन्योत्तममध्यमभेदेषु जन्तुषु अपवादोऽश्लाघा तं करोतीत्येवंशी लोऽपवादी तत्प्रतिषेधादनपवादी तस्य भावस्तत्त्वं अपवादाभाषणमित्यर्थः । परापवादो हि बहुदोषः यदाह वाचकचक्रवर्ती - 'परपरिभवपरिवादादात्मोत्कर्षाच्च बध्यते कर्म । नीचैर्गोत्रं प्रतिभवमनेकभवकोटिदुर्मोचम् । १ । तदेवं सकलजनगोचरोऽप्यवर्णवादो न श्रेयान् किं पुनः नृपामात्यपुरोहितादिषु बहुजनमान्येषु ? । नृपाद्यवर्णवादात्तु प्राणनाशादिरपि दोषः स्यात्, अत उक्तं 'नृपादिषु विशेषत इति' १० ॥८॥ तथा आयस्य वृद्ध्यादिप्रयुक्तधनधान्याद्युपचयरूपस्योचितश्चतुर्भागादितया योग्यो वित्तस्य व्ययो भर्त्तव्य भरणख भोगदेवातिथिपूजनादिषु प्रयोजनेषु विनियोजनम् । तथा च नीतिशास्त्रं - पादमायान्निधिं कुर्यात्, पादं वित्ताय घट्टयेत् । धर्मोपभोगयोः पादं पादं भर्त्तव्यपोषणे ॥ १ ॥ केचित्त्वाहुः - आयादर्द्ध नियुञ्जीत, धर्मे समधिकं ततः । शेषेण शेषं कुर्वीत, यत्नतस्तुच्छमैहिकम् ॥ १ ॥ आयानुचितो हि व्ययो रोग इव शरीरे (रं) कृशीकृत्य विभवसारमखिलव्यवहारासमर्थ पुरुषं करोति, पठ्यते च - आयव्ययमनालोच्य, यस्तु वैश्रमणायते । अचिरेणैव कालेन, सोऽत्र वै श्रमणायते । १ । ११ इति । तथा विभवादीनां वित्तवयोऽवस्थानिवासस्थानादीनामनुसारत आनुरूप्येण वेषो वस्त्राभर णादिभोगः, लोकपरिहासाद्यनास्पदत्तया योग्यो वेषः कार्य इति भावः । यो हि सत्यप्याये कापण्याायं न करोति, सत्यपि (च) वित्ते कुचेलत्वादिधर्मा भवति, स लोकगर्हितो धर्मेऽप्यनधिकारी स्यात्, प्रसन्नने
For Private & Personal Use Only
ainelibrary.org