SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ धर्म संग्रह. । सादिबलेन । स्थानमेव विशिनष्टि ‘सुप्रातिवेश्मिके' इति, शोभनाः शीलादिसंपन्नाः प्रतिवेश्मिका यत्र तस्मिन् , कुमातिवेश्मिकत्वे पुनः 'संसर्गजा दोषगुणा भवन्ति' इति वचनात् निश्चितं गुणहानिरुत्पद्यत इति तनिषेधः, दुष्प्रातिवेश्मिकास्त्वेते शास्त्रप्रसिद्धाः “खरिआ तिरिक्खजोणी, तालायरसमणमाहण सुसाणा । वगुरि अहवा गुम्मिअ, हरिएस पुलिंद मच्छिंदा । १ । पुनः किंभूते स्थाने? 'अनतिप्रकटगुप्तके' अतिप्रकट मसंनिहितगृहान्तरतयाऽतिप्रकाशं, अतिगुप्तं गृहान्तरैरव सर्वतः सन्निहितैरनुपलक्ष्यमाणद्वारादिविभागत४यातीव प्रच्छन्नं, तदेवातिगुप्तकं खार्थिकाकः(कोऽण) नातिप्रकटम् अनतिप्रकटं,नातिगुप्तकमनतिगुप्तकं, ततोऽनति प्रकटं चाऽनतिगुप्तकं चेति द्वन्द्वस्तस्मिन् , अतिप्रकटे स्थाने क्रियमाणं गृहं परिपार्श्वतो निरावरणतया चौरादयो। निःशङ्कमनसोऽभिभवेयः, अतिगुप्ते च सर्वतो गृहान्तरैर्निरुडत्वान्न खशोभां लभते, प्रदीपनाद्युपद्रवेषु च दुःखनिर्गमप्रवेशं च स्थात् ७॥॥७॥ तथा पापानि दृष्टादृष्टापायकारणानि कर्माणि तेभ्यो भीरुकता भयं, तत्र दृष्टापायकारणानि चौर्यपारदारिकत्वद्यूतरमणादीनि इहलोकेऽपि सकललोकसिहविडम्बनानि, अदृष्टापायकारणानि मद्यमांससेवनादीनि शास्त्रनिरूपितनरकादियातनाफलानि भवन्तीति दृष्टादृष्टापायहेतुभ्यो दूरमात्मनो व्यावर्त्तनमिति तात्पर्यम् । ८। तथा ख्यातस्य प्रसिद्धस्य तथाविधापरशिष्टसंमततया दूरं रूढिमागतस्य देशाचारस्य सकलमण्डलव्यवहाररूपस्य भोजनाच्छादनादिचित्रक्रियात्मकस्य प्रपालनमनुवर्तनं| तदाचारातिलङ्घने तद्देशवासिजनतया सह विरोधसंभवेनाकल्याणलाभः स्यादिति, पठन्ति चात्र लौकिकाः Jain Education Nepal For Private & Personal Use Only (old.jainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy