________________
हेयोपादेयवस्तुनिश्चयस्तेन वृद्धा महान्तः, वृत्तस्थाश्च ते ज्ञानवृद्धाश्च तेषामही सेवाऽभ्युत्थानादिलक्षणा। गुणभाजो हि पुरुषाः सम्यग् सेव्यमाना नियमात्कल्पतरव इव सदुपदेशादिफलैः फलन्ति यथोक्तम्|" उपदेशः शुभो नित्यं, दर्शनं धर्मचारिणाम् । स्थाने विनय इत्येतत्साधुसेवाफलं महत् ।१।" १८ इति । तथा गर्हितेषु लोकलोकोत्तरयोरनादरणीयतया निन्दनीयेषु मद्यमांससेवनपररामाभिगमनादिपापस्थानेषु अप्रवृत्तिर्गा(वर्तनं गाद) मनोवाकायानामनवतारः, आचारशुद्धौ हि सामान्यायामपि कुलाद्युत्पत्तौ पुरुषस्य माहात्म्यमुपपद्यते यथोक्तम्-"न कुलं हीनवृत्तस्य, प्रमाणमिति मे मतिः । अन्त्येष्वपि हि जातानां, वृत्तमेव विशिष्यते"।। इति १९॥१०॥ तथा भर्त्तव्यानां भर्तुं योग्यानां मातापितृगृहिण्यपत्यसमाश्रितखजनलोकतथाविधभृत्यप्रभृतीनां भरण पोषणं, तत्र त्रीण्यवश्यं भर्त्तव्यानि, मातापितरौ सती भार्या अलब्धबलानि चापत्यानीति यत उक्तम् “वृद्धौ च मातापितरौ,सती भार्या सुतान् शिशून् । अप्यकर्मशतं कृत्वा, भर्तव्यान्मनुरब्रवीत् ।१।” विभवसम्पत्तौ चान्यानपि । अन्यत्राप्युक्तम्-चत्वारि ते तात गृहे वसन्तु, श्रियाभिजुष्टस्य गृहस्थधर्मे । सखा दरिद्रो भगिनी व्यपत्या, जातिश्च वृद्धो विधनः कुलीनः।।" इति २०। तथा दीर्घकालभावित्वाद्दीर्घस्यार्थस्यानर्थस्य च दृष्टिः पर्यालोचनं सुविमृश्यकारित्वमित्यर्थः । अविमृश्यकारिखे हि महादोषसम्भवात् यत उक्तम्-"सहसा विधीत न क्रियामविवेकः परमापदां पदम्। मते हि विमृश्यकारिणं, गुणलुब्धाः स्वयमेव सम्पदः।१।" ॥२१ इति । तथा धर्मस्याभ्युदयनिःश्रेयसहेतोरिहैव शास्त्रे
Jnin Education
For Private & Personal Use Only
Rurjainelibrary.org