________________
४ वक्तुं प्रस्तावितस्य कान्तकान्तासमेतयुवजनकिन्नरारब्धगीताकर्णनोदाहरणेन श्रुतिः श्रवणं, तस्माच मन:&खेदापनोदादि गुणः स्यात् यदाह-"क्लान्तमपोद्यति खेदं, तसं निर्वाति बुध्यते मूढम् । स्थिरतामेति व्याकुलमुपयुक्तसुभाषितं चेतः।१।” प्रत्यहं धर्मश्रवणं चोत्तरोत्तरगुणप्रतिपत्तिसाधनत्वात्प्रधानमिति २२। तथा दुःखितजन्तुदुःखत्राणाभिलाषा, दयालुर्हि सर्वसत्त्वहितकाङ्कितया परमयतनावान् सर्वमेव धर्म क्षमादिसारमाराधयति तदुक्तम्-"धर्मस्य दया मूलमित्यादि” २३॥ तथा अष्टभिर्बुद्धिगुणैर्योगः समागमः, बुद्धिगुणाः शुश्रूषादयः, ते त्वमी-"शुश्रूषा श्रवणं चैव, ग्रहणं धारणं तथा । अहोऽपोहोऽर्थविज्ञानं, तत्त्वज्ञानं च धीगुणाः।१।” तत्र शुश्रूषा श्रोतुमिच्छा, श्रवणमाकर्णनं, ग्रहणं शास्त्रार्थोपादानं, धारणमविस्मरणम् , ऊहो विज्ञातमर्थमवलम्ब्य अन्येषु तथाविधेषु व्यात्या वितर्कणम् , अपोह उक्तियुक्तिभ्यां विरुद्धादर्थात् हिंसादिकात् प्रत्यपायसम्भावनया व्यावर्तनम्, अथवा ऊहः सामान्यज्ञानमपोहो विशेषज्ञानम्, अर्थविज्ञानमूहापोहयोगान्मोहसन्देहविपर्यासव्युदासेन ज्ञानं, तत्त्वज्ञानमूहापोहविशुद्धमिदमित्थमेवेति निश्चयः। शुश्रूषादिभिर्हि उपाहितप्रकर्षः पुमान्न कदाचिदकल्याणमामोति। एते च बुद्धिगुणा यथासंभवं द्रष्टव्याः २४॥ तथा गुणेषु सौजन्यौदार्यधैर्यदाक्षिण्यस्थैर्यप्रियप्रथमाभिभाषणादिषु खपरयोरुपकारकारणेष्वात्मधर्मेषु पक्षपातो बहुमानं तत्पशंसासाहाय्यदानादिनानुकूला प्रवृत्तिः। गुणपक्षपातिनो हि जीवा अवन्ध्यपुण्यबीजनिषेकेणेहामुत्र च गुणग्रामसम्पदमारोहन्ति २५ । ॥११॥ तथा अनभिनिवेशोऽभिनिवेशराहित्य, अभिनिवेशश्च
हापोहयोगान्मोहसन्दा पुमान्न कदाचिदकल्याणभाषणादिषु खपरया जीवा अवध्यपूण्यानाशा
Jain Education in
For Private & Personel Use Only
Ramainelibrary.org