________________
धर्म
॥९॥
Jain Education
| नीतिपथमनागतस्यापि पराभिभवपरिणामेन कार्यस्थारम्भः, स च नीचानां भवति यदाह - दर्पः श्रमयति नीचान्निष्फलनय विगुणदुष्करारम्भैः । स्रोतोविलोमतरणव्यसनिभिरायस्यते मत्स्यैः । १ । ” अनभिनिवेशश्च कादाचित्कः शाट्व्यान्नी चानामपि सम्भवत्यत आह-सदेति २६ । तथा वस्तुनोः कृत्याकृत्ययोः खपरयोर्विशेषस्यान्तरस्य ज्ञानं निश्चयः, अविशेषज्ञो हि नरः पशोर्नातिरिच्येत, अथवा विशेषस्यात्मन एव गुणदोषाधिरोहलक्षणस्य ज्ञानम् । यदाह - " प्रत्यहं प्रत्यवेक्षेत, नरश्चरितमात्मनः । किं नु मे पशुभिस्तुल्यं, किं नु सत्पुरुषैरिति !” । तच कदाचिदितरस्यापि भवतीत्यत आह-अन्वहमिति निरन्तरमित्यर्थः २७ । तथा न विद्यते सततप्रवृत्तातिविशदैकाकारानुष्ठानतया तिथ्यादिदिनविभागो यस्य सोऽतिथिः । यथोक्तम् — “तिथि - पर्वोत्सवाः सर्वे त्यक्ता येन महात्मना । अतिथिं तं विजानीयाच्छेषमभ्यागतं विदुः । १ । ” साधुः शिष्टाचाररतः सकललोकाविगीत, दीनो 'दी क्षये' इतिवचनात् क्षीणसकलधर्मार्थकामाराधनशक्तिः, तेषु प्रतिपन्नता प्रतिपत्तिरन्नपानादिरूपोपचार इतियावत्, कथं ? यथार्ह औचित्यानतिक्रमेण ' औचित्यमेकमेकत्र गुणानां कोटिरेकतः । विषायते गुणग्राम, औचित्यपरिवर्जितः' इति २८ ॥ १२ ॥ तथा त्रिवर्गों धर्मार्थकामास्तत्र यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्मः, यतः सर्वप्रयोजनसिद्धिः सोऽर्थः, यत आभिमानिकरसानुविद्धा सर्वेन्द्रियप्रीतिः स कामः । ततोऽन्योऽन्यस्य परस्परस्याऽनुपघातेनापीडनेन त्रिवर्गस्यापि उक्तखरूपस्य नत्वेकैकस्येत्यपिशब्दार्थः । साधनं सेवनं त्रिवर्गसाधनविकलस्योभयभवभ्रष्टत्वेन जीवननैरर्थक्यात् यदाह - " यस्य
For Private & Personal Use Only
संग्रह.
॥ ९ ॥
www.jainelibrary.org