________________
Jain Education In
त्रिवर्गशून्यानि दिनान्यायान्ति यान्ति च । स लोहकारभस्त्रेव श्वसन्नपि न जीवति । १ । ” तत्र धर्मार्थयोरुपघातेन तादात्विकविषयसुखलुब्धो वनगज इव को नाम न भवत्यास्पदमापदाम्, न च तस्य धनं धर्मः शरीरं वा यस्य कामेऽत्यन्तासक्तिः । धर्मकामातिक्रमाद्धनमुपार्जितं परे अनुभवन्ति, स्वयं तु परं पापस्य भाजनं सिंह इव सिन्धुरवधात् । अर्धकामातिक्रमेण च धर्मसेवा यतीनामेव धर्मो न गृहस्थानां । न च धर्मबाधयार्थकामौ सेवेत, बीजभोजिनः कुटुम्बिन इव नास्त्यधार्मिकस्यायत्यां किमपि कल्याणं, स खलु सुखी योऽमुत्रसुखाविरोधेनेहलोकसुखमनुभवति, तस्माद्धर्माबाधनेन कामार्थयोर्मतिमता यतितव्यम् । एव|मर्थबाधया धर्मकामौ सेवमानस्य ऋणाधिकत्वं कामबाधया धर्मार्थो सेवमानस्य गार्हस्थ्याभावः स्यात् । एवं च तादात्विकमूलहर कदर्येषु धर्मार्थकामानामन्योऽन्यबाधा सुलभैव तथाहि - यः किमप्यसंचित्योत्पन्नमर्थमपव्येति स तादात्विकः, यः पितृपैतामहमर्थमन्यायेन भक्षयति स मूलहरः, यो भृत्यात्मपीडाभ्यामर्थं संचिनोति न तु कचिदपि व्ययते स कदर्थः । तत्र तादात्विकमूलहरयोरर्थभ्रंशेन धर्मकामयोर्विनाशान्नास्ति कल्याणं, कदर्यस्य त्वर्थसङ्ग्रहो राजदायादतस्कराणां निधिः न तु धर्मकामयोर्हेतुरिति । अनेन त्रिवर्गबाधा गृहस्थस्य कर्त्तुमनुचितेति प्रतिपादितं यदा तु दैववशाद्वाधा संभवति तदोत्तरोत्तरवाधायां पूर्वस्य पूर्वस्य बाधा रक्षणीया तथाहि — कामबाधायां धर्मार्थयोर्वाधा रक्षणीया, तयोः सतोः कामस्य सुकरोत्पादत्वात्, कामार्थयोस्तु बाधायां धर्मो रक्षणीयः धर्ममूलत्वादर्थकामयोः । उक्तं च- " धर्मश्चेन्नावसीदेत, कपालेनापि
For Private & Personal Use Only
jainelibrary.org