________________
+
क
धर्म-
संग्रह.
१०॥
जीवतः।आयोऽस्मीत्यवगन्तव्यं, धर्मवित्ताहि साधवः ।।” २९ ॥१३॥तथा प्रतिषिद्धो देशोऽदेशः,प्रतिषिद्धः कालोऽकाला, तयोरदेशाकालयोरचरणं चरणाभावः, अदेशाकालचारी हि चौरादिभ्योऽवश्यमुपद्रवमामोति | ३०। तथा बलं शक्तिः, स्वस्य परस्य वा द्रव्यक्षेत्रकालभावकृतं सामर्थ्यम्, अबलमपि तथैव, तयोर्विचारणं पर्यालोचनं । बलाबलपरिज्ञाने हि सर्वः सफल आरम्भः, अन्यथा तु विपर्ययः। यदाह-"स्थाने शमवतां शक्त्या, व्यायामे वृद्धिरङ्गिनाम् । अयथाबलमारम्भो, निदानं क्षयसम्पदः।१।” इति. अत एव च पठ्यते"कः कालः? कानि मित्राणि? को देश? कौव्ययागमौ?।कश्चाहं? का च मे शक्तिरिति चिन्त्यं मुहुर्मुहुः।१।" इति ३१ । तथा यथाही या यस्योचिता लोकयात्रा लोकचित्तानुवृत्तिरूपो व्यवहारः सा विधेया । यथाईलोकयात्रातिक्रमे हि लोकचित्तविराधनेन तेषामात्मन्यनादेयतया(ता) परिणामापादनेन खलाघवमेवोत्पादितं भवति, एवं चान्यस्यापि खगतस्य सम्यगाचारस्य लघुत्वमेवोपनीतं स्यादिति ॥ उक्तं च-"लोकः खल्वाधारः, सर्वेषां धर्मचारिणां यस्मात् । तस्माल्लोकविरुद्धं, धर्मविरुद्धं च संत्याज्यम् ।१।" ३२। तथा परोपकृतौ परोपकारे पाटवं पटुत्वं, परोपकारपरो हि पुमान् सर्वस्य नेत्रामृताञ्जनम् ३३ । तथा हीर्लज्जा वैयात्याभाव: इतियावत्, लज्जावान् हि प्राणप्रहाणेऽपि न प्रतिज्ञातमपजहाति यथाह-“लजां गुणौघजननी जननीमिवार्यामत्यन्तशुद्धहृदयामनुवर्तमानाः। तेजखिनः सुखमसूनपि संत्यजन्ति, सत्यस्थितिव्यसनिनो न पुनः प्रतिज्ञाम् । १।” ३४। तथा सौम्यता अक्रूराकारः, क्रूरो हि लोकस्योगकारणं सौम्यश्च सर्वजनसुखाराध्यो
Jain Education
For Private & Personel Use Only
A
jainelibrary.org