Book Title: Dharmsangraha
Author(s): Manvijayji, Yashovijay Upadhyay, Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 11
________________ --NAC चिरकालव्यवधानवशेन त्रुटितगोत्रसंबन्धास्तेरन्यगोत्रीथैः, कीदृशैस्तैः ? 'कुलशीलसमैः' तत्र कुलं पितृपितामहादिपूर्वपुरुषवंशः, शीलं मद्यमांसनिशाभोजनादिपरिहाररूपो व्यवहारः, ताभ्यां समैस्तुल्यैः 'समं' साई, किमित्याह-'वैवाचं' विवाह एव तत्कर्म वा वैवाचं, सामान्यतो गृहस्थधर्म इति प्रकृतं अग्रेपि सर्वत्र ज्ञेयम् । अत्र लौकिकनीतिशास्त्रमिदम्-द्वादशवर्षा स्त्री, षोडशवर्षः पुमान्, तो विवाहयोग्यौ, विवाहपूर्वो व्यवहारः कुटुम्बोत्पादनपरिपालनारूपश्चतुरो वर्णान् कुलीनान् करोति, युक्तितो वरणविधानम्, अग्निदेवादिसाक्षिकं च पाणिग्रहणं विवाहः, स च लोकेऽष्टविधः, तत्र अलङ्कृत्य कन्यादानं ब्रायो विवाहः १, विभवविनियोगेन कन्यादानं प्राजापत्यः २, गोमिथुनदानपूर्वमार्षः ३, त(य)त्र यज्ञार्थमृत्विजः कन्याप्रदानमेव दक्षिणा स दैवः ४, एते धा विवाहाश्चत्वारः, गृहस्थोचितदेवपूजनादिव्यवहाराणामेतदन्तरङ्गकारणत्वात् । मातुः पितुर्बन्धूनां चाप्रामाण्यात्परस्परानुरागेण समवायागान्धर्वः ५, पणबन्धेन कन्याप्रदानमासुरः ६, प्रसह्य कन्याग्रहणादाक्षसः ७, सुप्तप्रमत्तकन्याग्रहणात्पैशाचः ८, एते च चत्वारोऽधयोः । यदि वधूवरयोरनपवादं परस्परं रुचिरस्ति तदा अधा अपि धाः। शुद्धकलत्रलाभफलो विवाहः, तत्फलं पाच सुजातसुतसन्ततिरनुपहता चित्तनिवृतिगृहकृत्यसुविहितत्वमाभिजात्याचारविशुद्धत्वं देवातिथिवान्धवxसत्कारानवद्यत्वं चेति । कुलवधूरक्षणोपायास्त्वेते गृहकर्मविनियोगः, परिमितोऽर्थसंयोगः, अखातयं, सदा चारमातृतुल्यस्त्रीलोकावरोधनमिति २॥५॥ तथा शिष्यन्ते स्म शिष्टा वृत्तस्थज्ञानवृद्धसेवोपलब्धविशुद्धशिक्षा ANCHECACAN556 Jain Education Interior For Private & Personal Use Only POPainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 522