Book Title: Dasharnabhadra Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 5
________________ दशार्ण 11 8 11 100000 पटहोद्घोषणां कारयामास यथा प्रातर्दशार्णभद्रनृपो निजसर्वसमृद्धिसहितो निखिलपरिवारपरिवृतो महावीरप्रभोदनार्थं गमिष्यति, अतो निखिलैः पैौरैरपि सुंदरवस्त्रालंकारालंकृतिं विधाय श्रीवीरप्रभोवंदनार्थ समेतव्यं एवं निजनगरे पटहोद्घोषणां कारयित्वा नगरमध्ये सर्वेऽपि राजमार्गास्तेन विविधरंगवस्त्रपताकाभिरलंकारिताः, स्थाने स्थाने सुगंधपुष्पमालाभिर्मुक्ताफलश्रेणिभिश्च तोरणानि बद्धानि. स्थाने स्थाने स्थापिताभिरगुरुतुरुष्कादिविविधसुगंधद्रव्यधूपघटिकाभिः समस्तमपि तन्नगरं मघमघायमानमभूत् एवंविधां तन्नगरशोभां निरीक्षितुं देवलोकात्समागता अमररांगना इव पौरना नानाविधबहुमूल्य वस्त्रा लंकाराद्यलंकृताः प्रभुर्वदनार्थं समुत्सुका इव राजमार्गे विविधवाहनारूढा द्रुतं चलंत्यो नगराद्बहिरुद्याने दशार्णभद्रपर्वताग्रे समाययुः एवं पोरपुरुषा अपि देवकुमारा इव विविधवस्त्राभूषणभूषिता रथादिवाहनारूढाः श्रीतीर्थनायकपादारविंद विभूषिते तस्मिन् दशार्णभद्रपर्वते प्रभुवन्दनार्थ समागताः, दशार्णभद्रनृपोऽपि निजकिंकरैः स्वपट्टहस्तिनं स्वर्णनू पुरस्वर्णश्रृंखलादिविविधाभूषणैः श्रृंगारयामास तत्पृष्टस्थापिते नानाविधरत्नजटिते स्वर्णसिंहासने स स्वयं समुपविष्टं प्रभोवंदनार्थं चचाल तस्य सार्थे 40401001[D] 101000* चरित्रम् 112 11 Scanned by CamScanner

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11