Book Title: Dasharnabhadra Charitram Author(s): Shravak Hiralal Hansraj Publisher: Shravak Hiralal Hansraj View full book textPage 4
________________ Scanned by CamScanner दशार्ण ॥३॥ ॥ ३ ॥ 4016DEHoteladeg[D]INEDAON प्रभुर्यच्छतिस्म. इतश्चोद्यानपालको द्रुतं दशार्णभद्रनृपसभायां गत्वा बद्धांजलिर्नृपं वर्धापयामास, यथा हे || चरित्रम् स्वामिन् ! दशार्णभद्रपर्वतोपरि भगवान् श्रीमहावीरः समवसृतोऽस्ति, देवैश्च तत्रातीवमनोहरं समवस-3 | रणं रचितमस्ति, तन्मध्ये सिंहासनस्थो भगवान् देवादिपर्षदोऽये मधुरवाण्या धर्मदेशनां ददाति. तत् | श्रुत्वात्यन्तं हृष्टो दशार्णभद्रनृपोऽपि तस्मै वनपालाय भूरिपारितोषिकं दत्वा विसर्जयामास. तदनंतरं | धर्मोल्लसितमानसः स दशार्णभद्रनृपो निजमनसीति व्यचिंतयत्, अहो ! अय मे पूर्वकृतपुण्यानि सफलीभू- | तानि यन्मदोयपुरोपांते त्रिजगत्प्रज्यो भगवान समवस्तृतः, इति विचिंत्य सिंहासनादत्थाय प्रभुसमवसरणदिशि सप्ताष्टपदानि संमुखं गत्वा स प्रभु स्तौतिस्म, यथा-असर्वभावेन यदृच्छया वा । परानुवृत्त्या भयतृष्णया वा ॥ ये त्वां नमस्यन्ति जिनेन्द्रचन्द्र । तेऽप्यामरी संपदमाप्नुवंति ॥१॥ अगम्यमध्यात्मविदामवाच्यं । वचस्विनामक्षवतां परोक्षं ॥ श्रीवर्धमानाभिधममात्मरूप-महं स्तुतेगोचरमानयामि ॥२॥ एवं प्रभुस्तुतिं कृत्वा पश्रान्निवृत्त्य सिंहासने समुपविश्य स निजहृदि व्यचिंतयत्, यथा पुरा केनापि न वन्दितस्तथा महत्या समृध्ध्या प्रातरहं समवसरणे गत्वा प्रभोवंदनं करिष्ये इति विचिंत्य स निजनगरेPage Navigation
1 2 3 4 5 6 7 8 9 10 11