Book Title: Darbarilal Kothiya Abhinandan Granth
Author(s): Jyoti Prasad Jain
Publisher: Darbarilal Kothiya Abhinandan Granth Prakashan Samiti

View full book text
Previous | Next

Page 521
________________ दृष्टिपथमाजग्मतुः । तयोर्मध्ये एकोद्गतदन्ता अपरेकनेत्रा । न चैषो देवतानां स्वभाव इति विचिन्त्य मंत्रव्याकरणशास्त्रकुशलाभ्यां ताभ्यां ते विद्ये शुद्धीकृत्य पुनः साधिते । ततश्च ते विद्यादेवते स्वस्वभावस्थिते दृष्टे । पुनस्ताभ्यां सर्वमेतद्वृत्तं वरसेनाचार्य प्रति निवेदितम् । धरसेनाचार्येण ज्ञातश्रुतग्रहणयोग्यताविशिष्टपात्रेण सन्तुष्टेन शुभतिथौ शुभनक्षत्रे शुभदिवसे ताभ्यां सिद्धान्तग्रन्थः प्रारब्धः । पुनः क्रमेण व्याचक्षमाणेन तेन धरसेनाचार्येणाषाढमासशुक्लपक्षकादशम्यां पूर्वाह्न ग्रन्थः समाप्ति नीतः। तेन सन्तुष्टभूत विशेषैर्देवैस्तदा तयोर्मध्ये एकस्य बलि (नैवेद्य) पुष्पादिभिः महती पूजा कृता । तेनाचार्येण धरसेनेनैकस्य भूतवलोति नाम कृतम् । अपरस्य भूतविशेषैर्देवैरेव पूजितस्य समीकृतास्तव्यस्तदन्तस्य पुष्पदन्त इति संज्ञा कृता । एताभ्यामेवाचार्याभ्यां षट्खण्डागमस्य धरसेनाचार्यतः पठितस्य ग्रन्थ-रचना कृता । यद्यपि अल्पायुष्केण पुष्पदन्ताचार्येण विंशतिप्ररूपणासमन्वितसत्प्ररूपणाया एव सूत्राणि रचितानि, भतबल्याचार्यस्य सविधे जिनपालितद्वारा प्रेषितानि च, भगवता भूतबलिभट्टारकेण महाकर्मप्रकृतिप्रामृतस्य विच्छेदो भविष्यतीति विचार्य द्रव्यप्रमाणानुगमादिनिखिलषट्खण्डागमश्रुतस्य निबन्धनं कृतम्, तथापि खण्डसिद्धान्तापेक्षया तावुभावाचार्यों श्रुतस्य (षट्खण्डागमस्य) कर्तारावभिधीयते । ___ एवं मूलग्रन्थकर्ता वर्द्धमानभट्टारकः, अनुग्रन्थकर्ता गौतमस्वामी, उपग्रन्थकर्तारो भूतबलि-पुष्पदन्तादयो वीतराग-द्वेष-मोहा मुनिवरा इत्यवधेयम् । श्रुतनिवन्धनविषयकमेतावन्मात्रमेव वृत्तं वीरसेनाचार्येण धवलाटीकायां निबद्धमस्ति । अतस्तदुक्तवचनात् श्रुतारम्भतिथिर्न विज्ञायते । तस्मात्तु केवलमिदमेवावगम्यते यच्छुभतिथौ शुभनक्षत्रे शुभवारे ताभ्यां श्रुताभ्यासः समारब्धः । आषाढमासशुक्लपक्षकदशम्यां च समाप्ति नीतः । किन्तु श्रीमदिन्द्रनन्दिकृते श्रुतावतारे पुस्तकाकारेण निबद्धस्य श्रुतस्य (षट् खण्डागमस्य) तिथेः स्पष्टतयोल्लेखः कृतः । तथा हि ज्येष्ठसितपक्षपञ्चम्यां चातुर्वर्ण्यसंघसमवेतः । तत्पुस्तकोपकरणैय॑धात् क्रियापूर्वकं पूजाम् ॥ श्रु तपञ्चमीति तेन प्रख्याति तिथिरियं परामाप । अद्यापि येन तस्यां श्रुतपूजां कुर्वते जैनाः ।। अत एतत्प्रमाणाज्ज्येष्ठशुक्ला पञ्चमी समुपलब्धस्य निबद्धश्रुतस्य तिथिरिति निश्चीयते । अत्र सन्देहस्य किमपि कारणं नास्ति; तदवचनस्य प्रामाण्याङ्गीकारात ततोऽस्यां तिथौ श्रतपञ्चमीसमारोह: सर्वजनः समुल्लासपूर्वकं समायुज्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560